पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १४९ दृशोरुन्मीलनेश्मीलनश्मीनलीलयोन्मीलननिमीलनरूपया लीलयोत्स्मीलितं प्रकाशितम् क्ष्मीलितं तिरोहितं च सर्वविष्टपं येन तम् । पिच्छस्रजा पीलितं बद्धं नीलकुन्तलं येन तम् । शीलेन संकीलितं बद्धं वशीकृतं लोकमानसं येन तमीश्वरम् ॥--उन्मीलनश्मीलनेति । ५१७ मील ५१८ श्मील ५१९ स्मील ५२० क्ष्मील निमेषणे । संकोचनं तत् । मीलश्मीलाभ्यां ल्युट् । उत्स्मीलितक्ष्मीलितेति । स्मीलक्ष्मीलाभ्यां णिजन्ताभ्यां कर्मणि क्तः । पीलितेति । ५२१ पील प्रतिष्टम्भे । रोधनं तत् । कर्मणि क्त: । नीलेति । ५२२ णील वर्णे । इगुपधत्वात् कः । शीलेनेति । ५२३ शील समाधौ । समाधिर्निष्ठाकरणम् । घञ् । संकीलितेति । ५२४ कील बन्धने । कर्मणि क्तः ॥

सन्मार्गसंकूलिषु शूलदायिनं दहन्तमेनांसि च तूलपूलवत् । मूलं फलं वाप्यदतामचुल्लतां प्रफुल्लभक्त्युन्नतिचिल्लचेतसाम् ॥ ६८ ॥ अवेलितानां प्रतिचेलधारिणामकेलिलोले हृदि बद्धखेलनम् । फणीश्वरक्ष्वेलरुधं प्रवेल्लितस्रजं मुहुः पेलववातफेलनात् ॥ ६९ ॥ सन्मार्गसंकूलिषु सन्मार्गनिरोधशीलेषु दुष्टेषु । शूलदायिनं पीडाकरम् । तूलपूलवदेनांसि दहन्तं च । प्रतिचेलधारिणां प्रतिचेलानि वल्कलादीनि दधानानां यामिनामकेलिलोले हृदि बद्धलेखनं कृतपीडनम् । मूलं फलं वा अपि अदतां भक्षयताम् अचुल्लतामनाविष्कृताभिप्रायाणां प्रफुल्लया विकसितया भक्त्युन्नत्या चिल्लचेतसामार्द्रीभवन्मनसामवेलितानां केनाप्यचलितानां फणीश्वरक्ष्वेलरुधं कालियस्य विषं रुन्धन्तम् । पेलवस्य मृदोर्वातस्य फेलनाच्चलनान्मुहुः प्रवेल्लितस्रजं दोलायमानवनमालम् ॥–सन्मार्गसंकूलिष्विति । ५२५ कूल आवरणे । णिनिः । शूलेति ५२६ शूल रुजायां संघाते च । धञ् तूलपूलवत् । ५२७ तूल निष्कर्षे । निष्कोषणं तत् । ५२८ पूल संघाते च । द्वयोर्घञ् । मूलं फलम् । ५२९ मूल प्रतिष्ठायाम् । ५३० फल निष्पत्तौ । द्वयोः पचाद्यच् । अचुल्लताम् । ५३१ चुल्ल भावकरणे । शता । प्रफुल्लेति । ५३२ फुल्ल विकसने । पचाद्यच् । चिल्लेति । ५३३ चिल्ल शैथिल्ये भावकरणे च । अच् । अवेलितानाम् । ५३४ वेलृ. ५३५ चेलृ. ५३६ केलृ ५३७ खेलृ ५३८ क्ष्वेलृ ५३९ वेल्ल चलने । वेलेः कर्मणि क्तः चेलेति । चेलेरच् । केलीति । केलेरिन् । खेलनमिति । खेलेर्ल्युट् । द्वयोः क्रीडार्थत्वं धातूनामनेकार्थत्वात् । क्ष्वेलेति क्ष्वेलेर्घञ् । प्रवेल्लितति । वेल्लेः कर्तरि क्तः । पेलवेति । ५४० पेलृ ५४१ फेलृ ५४२ शेलृ गतौ । 'कुडिकितिपणिपेलृपल्लिवल्लिगालिभ्योऽवक्' इति पेलेरवक् फेलनात् फेलेर्ल्युट् ॥

सुमार्गशेलात्स्खलतां खलात्मनां गलच्छिदार्थं सलितं महीतलम् । दलत्तनुप्रश्वलितान्परान्प्रतिप्रश्वल्लिताखोडसुदर्शनायुधम् ॥ ७० ॥ सुमार्गशेलात् सन्मार्गगमनात् स्खलतां चलतां खलात्मनां गलच्छिदार्थे महीतलं सलितं प्राप्तं युद्धे दलत्तनु विदीर्यमाणदेहं यथा भवति तथा प्रश्वलितान् आशु गतान् परान्