नीलश्वेतारुणाभिः स्रवदमृतभरं गृह्यमाणात्मसौख्यः ॥ ४३ ॥
प्रापश्यद्विश्वमात्मेत्ययमिह पुरुषः शोकमोहाद्यतीतः
शुक्रं ब्रह्माध्यगच्छत्स खलु सकलवित्सर्वसिद्ध्यास्पदं हि ।
विस्मृत्य स्थूलसूक्ष्मप्रभृतिवपुरसौ सर्वसङ्कल्पशून्यो
जीवन्मुक्तस्तुरीयं पदमधिगतवान्पुण्यपापैर्विहीनः ॥ ४४ ॥
यः सत्त्वाकारवृत्तौ प्रतिफलति युवा देहमात्रावृतोऽपि
तद्धर्मैर्बाल्यवाद्धर्थादिभिरनुपहतः प्राण आविर्बभूव ।
श्रेयान्साध्यस्तमेतं सुनिपुणमतयः सत्यसङ्कल्पभाजो
ह्यभ्यासादेवयन्तः परिणतमनसा साकमूर्ध्वं नयन्ति ॥ ४५ ॥
प्रायोऽकामोऽस्तकामो निरतिशयसुखायात्मकामस्तदाऽसौ
तत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्य देहावसाने ।
प्राणा नैवोत्क्रमन्ति क्रमविरतिमिताः स्वस्वहेतौ तदानीं
कायं जीवो विलीनो लवणमिव जलेऽखंड आत्मैव पश्चात् ॥ ४६ ॥
पिंडीभूतं यदन्तर्जलनिधिसलिलं याति तत्सैंधवाख्यं
भूयः प्रक्षिप्तमस्मिन्विलयमुपगतं नामरूपे जहाति ।
प्राज्ञस्तद्वत्परात्मन्यथ भजति लयं तस्य चेतो हिमांशौ
वागग्नौ चक्षुरर्के पयसि पुनरसृग्रेतसी दिक्षु कर्णी ॥ ४७ ॥
क्षीरान्तर्यद्वदाज्यं मधुरिमविदितं तत्पृथग्भूतमस्मात्
भूतेषु ब्रहा तद्वद्व्यवहृतिविदितं श्रान्तविश्रान्तिबीजम् ।
यं लब्ध्वा लाभमन्यं तृणमिव मनुते यत्र नोदेति भीतिः
सान्द्रानंदं यदन्तः स्फुरति तदमृतं विद्धयतो ह्यन्यदार्तम् ॥ ४८ ॥
ओतः प्रोतश्च तन्तुष्विह विततपटश्चित्रवर्णेषु चित्रः
तस्मिञ्जिज्ञास्यमाने ननु भवति पटः सूत्रमात्रावशेषः ।
तद्वद्विश्वं विचित्रं नगनगरनरग्रामपश्वादिरूपं
प्रोतं वैराजरूपे स वियति तदपि ब्रह्मणि प्रोतमोतम् ॥ ४९ ॥