महाभारतम्-05-उद्योगपर्व-185

विकिस्रोतः तः
← उद्योगपर्व-184 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-185
वेदव्यासः
उद्योगपर्व-186 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मे रामंप्रति प्रस्वापनास्त्रं प्रयोक्तुकामे नारदेन तन्निषेधनम् ।। 1 ।।
भीष्मेण दिव्यपुरुषवचनाच्च प्रस्वापनास्त्रप्रतिसंसंहारे रामेण स्वस्य पराजितत्वोक्तिः ।। 2 ।।
नारदादिवचनाद्युद्धोपरमः ।। 3 ।।





भीष्म उवाच।

5-185-1x

ततो हलहलाशब्दो दिवि राजन्महानभूत्।
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ।।

5-185-1a
5-185-1b

अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने ।
प्रस्वापं मां प्रयुज्जानं नारदो वाकयमब्रवीत् ।।

5-185-2a
5-185-2b

एते वियति करव्य दिवि देवगणाः स्थिताः।
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ।।

5-185-3a
5-185-3b

रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते।
तस्यवमानं कौरव्य मास्म कार्षीः कथञ्चन ।।

5-185-4a
5-185-4b

ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः ।
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ।।

5-185-5a
5-185-5b

यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु ।
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ।।

5-185-6a
5-185-6b

ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत्।
ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि ।।

5-185-7a
5-185-7b

ततो रामो हृषितो राजसिंह
दृष्ट्वा तदस्त्रं विनिवर्तितं वै।
जितोऽस्मि भीष्मेण सुमन्दबुद्धि-
रित्येव वाक्यं सहसा व्यमुञ्चत् ।।

5-185-8a
5-185-8b
5-185-8c
5-185-8d

ततोऽपश्यत्पितरं जामदग्न्यः
पितुस्तथा पितरं चास्य मान्यम्।
ते तत्र चैनं परिवार्य तस्थु-
रूचुश्चैनं सान्त्वपूर्वं तदनीम् ।।

5-185-9a
5-185-9b
5-185-9c
5-185-9d

पितर ऊचुः।

5-185-10x

मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन ।
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ।।

5-185-10a
5-185-10b

क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन ।
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम् ।।

5-185-11a
5-185-11b

इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् ।
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया ।।

5-185-12a
5-185-12b

वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे ।
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ।।

5-185-13a
5-185-13b

पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् ।
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ।।

5-185-14a
5-185-14b

एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः।
निवर्तस्व रणादस्मादिति चैव प्रसादितः ।।

5-185-15a
5-185-15b

रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः ।
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ।।

5-185-16a
5-185-16b

मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे।
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे ।।

5-185-17a
5-185-17b

भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ।
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः ।।

5-185-18a
5-185-18b

कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव ।
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली ।।

5-185-19a
5-185-19b

नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः।
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्।
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ।।

5-185-20a
5-185-20b
5-185-20c

भीष्म उवाच।

5-185-21x

एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम्।
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्।
न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि ।।

5-185-21a
5-185-21b
5-185-21c

निवर्त्यतामापगेयः कामं युद्धात्पितामहाः।
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन ।।

5-185-22a
5-185-22b

ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ।
नारदेनैव सहिताः समागम्येदमब्रुवन् ।।

5-185-23a
5-185-23b

निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् ।
इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया।।

5-185-24a
5-185-24b

मम व्रतमिदं लोके नाहं युद्धात्कदाचन।
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ।।

5-185-25a
5-185-25b

नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्।
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ।।

5-185-26a
5-185-26b

ततस्ते मुनयः सर्वे नारदप्रमुखा नृप।
भागीरथी च मे माता रणमध्यं प्रपेदिरे ।।

5-185-27a
5-185-27b

तथैवात्तशरो धन्वी तथैव दृढनिश्चयः ।
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ।।

5-185-28a
5-185-28b

समेत्य सहिता भूयः समरे भृगुनन्दनम् ।
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ।।

5-185-29a
5-185-29b

राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ।
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ।।

5-185-30a
5-185-30b

एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् ।
न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ।।

5-185-31a
5-185-31b

ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः ।
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ।।

5-185-32a
5-185-32b

ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् ।
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ।।

5-185-33a
5-185-33b

दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै।
लोकानां च हितं कुर्वन्नहमप्याददे वचः ।।

5-185-34a
5-185-34b

ततोऽहं राममासाद्य ववन्दे भृशविक्षतः।
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ।।

5-185-35a
5-185-35b

त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः ।
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ।।

5-185-36a
5-185-36b

मम चैव समक्षं तां कन्यामाहूय भार्गवः।
उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम् ।।

5-185-37a
5-185-37b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
पञ्चाशीत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-184 पुटाग्रे अल्लिखितम्। उद्योगपर्व-186