पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
योगतारावली॥
१०१
योगतारावली।

वंदे गुरूणां चरणारविंदे
 सदर्शितस्वात्मसुखावबोधे ॥
जनस्य ये जांगलिकायमाने
 ससारहालाहलमोहशांत्यै ॥ १ ॥
सदाशिवोक्तानि सपादलक्ष-
 लयावधानानि वसन्ति लोके ।।
नादानुसंधानसमाधिमेक
 मन्यामहे मान्यतम लयानाम् ॥ २॥
रेचपूरैरनिलस्य कुभैः
 सर्वासु नाडीषु विशोधितासु
प्रनाहताख्यो बहुभिः प्रकारै-
 रतः प्रवर्तेत सदा निनादः ॥ ३ ॥
सादानुसधान नमोऽस्तु तुभ्य
 त्वा साधनं तत्त्वपदस्य जाने ॥
भवत्प्रसादात्पवनेन साक
 विलीयते विष्णुपदे मनो मे ॥ ४॥
जालंधरोड्याणनमूलबधा-
 ष्जल्पन्ति कठोदरपायुमूलान् ॥
बधत्रयेऽस्मिन्परिचीयमाने
 बंधः कुतो दारुणकालपाशात् ॥ ५॥
ओड्याणजालघरमूलबधै-
 रुन्निद्रितायामुरगांगनायाम् ॥
प्रत्यङ्मुखत्वात्प्रविशन्सुषुम्ना -