पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सह मदनधनुर्ज्यानिःस्वनेनोज्जजृम्भे
 वियति विततिभाजामारवो नीरदानाम् ।
अपतवनिपृष्ठे नूतना तोयधारा
 सह च विरहभाजां विश्लथैरश्रुपूरैः ॥ १०१ ॥
इत्थं प्रवृत्ते समये धनानामुद्वेलमुद्धूलितसूनरेणुः ।
 उच्छूनमानं मिथुनं तदुच्चैरुच्चाटयामास मनोजमन्त्री ॥ १०२ ॥
विरहमसहमानौ वीतनिःशेषमानौ
 तदनु रहसि दीनौ नुधमानौ स्मरेण
निबिडतमसि घोरे जृम्भमाणे निशीथे
 निजनिजनिलयात्तौ निःसृतौ निःसहायौ ॥ १०३ ॥
शृण्वन्तौ श्रुतिकटु निःवनं धनानां पन्थानं पदयुगलेन वीक्षमाणो ।
 कुबाणौ हृदि च मनोरथाननेकान्दुरिसरविवशौ बिचेरतुस्तौ ॥१०४॥
निग्धश्यामस्तमालरविरलदलसंघातनीरधशाखै-
 राकान्ते प्रान्तभृङ्गोकुलंबिततगमण्डलीमाण्डितान्ते
स्फायद्घोरान्धकारस्थगितदिशि निशीथान्तरे तत्र कुत्रा-
 प्यारामे मारपीडाभरपरिललितैरङ्गकैः संगतौ तौ ॥ १०५ ॥
आबद्धमानौ निभृतं चरन्तावा कस्मिकस्पर्शविकम्पिताऔ ।
 आवेदयामासः परस्परं तावानन्दचन्द्रः स्वयमभ्युञ्चन् ॥ १०६ ॥
आमग्नाङ्गममन्दरागमधुरं तादाश्लिषन्तावुभा-
 वस्त्राम्भोविसरैरतीव शिशिरैरासिच्यमानाङ्गकौ ।
आमोदादगलद्विरावभिनवीभूताविवात्युत्सुका-
 वानन्दामृतवारिधावकुरुतामव्याजमामज्जनम् ॥१०७॥

इति महाकविश्रीनारायणाभट्टपादविरचितं कोटिविरहम् ।