क्व ते यातः प्रेयान्प्रहसितहिमांशुं कुमुदिनीं
गतच्छाया भूयस्तनुरनुकरोतीथमधुना ।
शुचा दीनो मौनं भजति च निकामं परिजनः
किमेतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ १४ ॥
इति पृष्टा तया तन्वी कृत्वा निःश्वसितं शनैः ।
आदितो दुरवस्थां तामातुरा सन्यवेदयत् ॥ ९५ ॥
श्रुत्वा वृत्तमुवाच सा च युक्योरस्मिन्नवस्थान्तरे
ना[१] गः किंचन विद्यते हतविधेरैतद्विलासान्तरम् ।
आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधिं खिन्नधी
सौभाग्यं तब तादृशं प्रणयितां तस्यापि ताइग्विधा ॥९६॥
विरहानलेन तव मानसं यथा नियमानसं च परितप्यते भुवम् ।
युदयोः परस्परनिमेलना ततः सुकरा भवेत्सुर[२] भिवाणशिल्पिनः ॥९७॥
सततमिति बचोमिः स्निग्ध्या केलिसख्या
विदितहृदयपीडोदन्तया सान्त्व्यमाना
समधिकारितापक्षीयमाणावल्ली
समयमनयदेषा संस्मरन्ती तमेव ॥ ९८ ॥
इत्थं दैवावधिगतवतोरप्रियं विप्रयोग
रोषप्रेमव्यतिकरजुषोः सीदतोर्जातखेदम्
यूनोरासीत्सपदि पुरतो बा[३] रिदानामनेहा
मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ॥
चातकीमनसि मोदमावहन्केतकीकुसुमसौरभं वहन् ।
धूतनूतनधनः समाययौ चू[४]तसायकसखा समीरणः ॥ १०० ॥