पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
स्वात्मनिरूपणम् ।


अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ॥
अद्वैतमेव वस्तु प्रतिपादयति प्रसिद्धमपरोऽशः ॥ ५० ॥
अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ॥ ५१ ।।
आरोपित यदि स्यादद्वैत वस्त्ववस्तुनि द्वैते ॥
तदयुक्तमेव यस्मात्सत्येऽध्यासो भवत्यसत्यानाम् ॥ ५ ॥
यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।।-
आरोपण न, शून्ये तस्मादद्वैतसत्यता ग्राह्या ॥ ५३ ॥
प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।।
द्वैत न प्रतिपाद्य तस्य स्वत एव लोकसिद्धत्वात् ।।५४ ।।
अद्वैत सुखरूप दुस्सहदुःखं सदा भवेद्द्वैतम् ॥
यत्र प्रयोजनं स्यात्प्रतिपादयति श्रुतिस्तदेवासौ ।। ५५ ॥
निगमगिरा प्रतिपाद्य वस्तु यदानदरूपमद्वैतम् ॥
स्वाभाविक स्वरूप जीवत्व तस्य केचन ब्रुवते ॥ ५६ ॥
स्वाभाविक यदि स्या जीवत्व तस्य विशदविज्ञप्तेः ।
सकृदपि न तद्विनाश गच्छेदुष्णप्रकाशवद्वह्नः ॥ ५७ ।।
यद्वदयो रसविद्ध काचनतां याति तहदेवासौ ।
जीवः साधनशक्त्या परता यातीति केचिदिच्छन्ति ॥ ५८ ॥
तदिद भवति न युक्त गतवति तस्मिंश्चिरेण रसवीर्ये ॥
प्रतिपद्यते प्रणाश हैमो वर्णोऽप्ययस्समारूढः ॥ ५९ ॥
जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।।
गतमिव साधनशक्त्या प्रतिभात्येव प्रयाति न विनाशम् ॥ ६०
तस्मात्स्वतो यदि स्याज्जीवस्सतत स एव जीवः स्यात् ॥
एव यदि परमात्मा परमात्मैवायमिति भवेद्युक्तम् ।। ६१ ॥
यदि वा परेण साम्य जीवश्चेद्भजति साधनबलेन ।।