पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
स्वात्मनिरूपणम् ।


चिद्वस्तु लक्षयित्वा बोधयति स्पेष्टमसिपदेनैक्यम् ॥ ३७॥
इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।
अहमित्यपरोक्षयता वेदो वेदयति वीतशोकत्वम् ॥ ३८ ॥
प्रायः प्रवर्तकत्वं विधिवचसा लोकवेदयोर्दृष्टम् ।
सिद्ध बोधयतोऽर्थं कथमिव तद्भवति तत्त्वमस्यादेः ॥ ३९ ॥
विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
राजा याति सुतोऽभूत् इति बोधेन-प्रवर्तते लोकः ॥ ४० ॥
ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
देशिकदयाविहीनैरपरोक्षयितुं न शक्यते पुरुषैः ।। ४१ ॥
विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः । .
भजति स्वमेव बोध गुरुणा किमिति त्वया न मतव्यम् ॥ ४२ ।।
कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
आचार्यवान्हि पुरुषो वेदेत्यर्थस्य वेदसिद्धत्वात् ।। ४३ ।।
वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
भवति परम प्रमाण बोधो नास्ति स्वतश्च परतो वा ॥ ४४ ।।
नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
वाक्य तन्निगमाना मान ब्रह्माद्यतींद्रियावगतौ ॥ ४५ ॥
मान प्रबोधयन्त बोध मानेन ये बुभुत्सन्ते ।।
एधोभिरेव दहन दग्धु वाछन्ति ते महात्मान. ॥ ४६ ॥
वेदोऽनादिरमुष्य व्यजक ईशः स्वयप्रकाशात्मा ॥
तदभिव्यक्तिमुदीक्ष्य प्रोक्तोऽसौ सूरिभिं प्रमाणमिति || ४७ ।।
रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।।
तद्वददृष्टावगतौ वेदवदन्यो न वेदको हेतुः || ४८ ॥
निगमेषु निश्चितार्थं तत्रे कश्चिद्यदि प्रकाशयति ।।
तदिदमनुवादमात्रं प्रामाण्यं तस्य सिध्यति न किंचित् ।। ४९ ।।