पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
स्वात्मनिरूपणम् ।


देहेंद्रियादिधर्मानात्मन्यारोपयन्नभेदेन ॥
कर्तृत्वाद्यभिमानी बोधः स्यात्त्वंपदस्य वाच्योऽर्थः ॥ २५ ॥
देहस्य चेद्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ॥
प्रतिभाति योऽवबोधः प्रोक्तोऽसौ त्वंपदस्य लक्ष्योऽर्थः ॥ २६ ॥
वेदावसानवाचा संवेद्य सकलजगदुपादानम् ।।
सर्वज्ञताद्युपेत चैतन्य तत्पदस्य वाच्योऽर्थः ॥ २७ ॥
विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ॥
अक्षरमनुभववेद्य चैतन्य तत्पदस्य लक्ष्योऽर्थः ॥ २८ ॥
सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।।
अथ लक्ष्यलक्षकत्व भवति पदार्थात्मना च संबंधः ।। २९ ।।
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।।
सामानाधिकरण्यं भवतीत्येव, वदन्ति लाक्षणिकाः ॥ ३० ॥
प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्व च सद्वितीयत्वम् ।
इतरेतर विरुद्ध तत इह भवितव्यमेव लक्षणया ॥ ३१ ॥
मानान्तरोपरोधे मुख्यार्थस्यापरिग्रहे जाते ।
मुख्याविनाकृतेऽर्थे वृत्तिः सैव लक्षणा प्रोक्ता ।। ३२ ।।
निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
जहतीति लक्षणा स्यात् गगायां घोषवादिह न ग्राह्या ।। ३३ ॥
वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
इहमजहतीति कथिता शोणो धावतिवदत्र न ग्राह्या ॥ ३४ ॥
जहदजहतीति सो स्याद्या वाच्यार्थैकदेशमपहायः ।
बोधयति चैकदेश सोऽय द्विज इतिवदाश्रयेदेनाम् ॥ ३५ ॥
सोऽयं द्विज इति वाक्य त्वक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
द्विजमात्रलक्षकत्वात्कथयत्यैक्य पदार्थयोरुभयोः ।। ३-६-१
तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।