मुक्तानां परिमोचनं विदधतस्तत्प्रतिनिष्पादिनी
भूयो दूरत एव धूतमनसतत्पालनं तन्वती।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥ ६५ ॥
श्रीकामाक्षि तब मितचुतिझरीवैदग्ध्यलीलायितं ।
पश्यन्तोऽपि निरन्तरं सुविमलं मान्या जगन्मण्डले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मन्दाक्षं चि[१]रमस्तु वस्तुविभवो मन्दारचन्द्रादयः ॥ ६६ ॥
क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
श्रीकामाक्षि बलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
'एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥६७॥
श्रीकाञ्चीपुररत्नदीपकलिके [२]नान्यानि विश्वान्तरे
चाकोराणि चराचरेश्वरि परं धन्यानि मन्यामहे
कम्पातीरकुटुम्बचङ्कमकलाचुञ्चूनि चञ्चूपुटै
र्नित्यं यानि तर स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनय-
न्रागव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन्
लीलालापपुरःसरोऽपि सततं वाचंयमान्प्रीणय-
न्कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्य॑ते ॥ ६९ ॥
श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् ।