पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
पञ्चशती


कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिता
 कालिम्न कचरोचिषां व्यतिकरे कांचिदृशामश्नुते ॥ ५९ ॥
जानीमो जगदीश्वरि प्रममतां त्वन्मन्दहासप्रभां
 श्रीकामाक्षि कुमुद्वतीमभिनयामेषा यतः सर्वदा ।
आस्येन्दोवलोकने पशुपतेरभ्येति सफुल्लतां
 तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥
यान्ती लोहितिमानमनभ्रतटिनी धातुर्छटाकर्दमै
 र्मान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी।
बिम्बोष्ठयुतिपुञ्जचुम्बनकला शोष्णायमानेन ते
 कामाक्षि स्मि[१]तरोचिषा समदासारोढुसाकाङ्क्षति ॥ ६१ ॥
श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं
 नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम्
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
 श्वेतं किं च तथा यथा मलिनतां धत्ते च भुक्तामणिः ॥६२॥
त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
 सन्तः संततमामनन्त्यमलता तल्लक्षणं लक्ष्यते
येनासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस
 ध्वान्तं तत्खलु दुःखिनो वयममी के नेति जानीमहे ॥ ६३ ॥
नम्रस्य प्रणयप्ररोहकलहच्छेदाय पादाब्जयो-
 र्मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बन्धूकप्रसवश्रियं जितवतो महीय[२]सी तां रुचिं
 बिम्बोष्ठस्य रूचिर्निरस्य हसितज्योत्स्ना वयस्वायते ॥ ६४ ॥


  1. शिलधीधितिःसार देशा इतिग-पाठः
  2. बहीयसी' इति का ख-पाठः