पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
पञ्चशती

यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयत्यञ्जसा
 श्रीकामाक्षि तव स्मितायः सततं तस्मै नमस्कुर्महे ॥ ७० ॥
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्परोहे तव
स्फीतश्चेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका
 गङ्गा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥
'ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्ति बिना
 त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना
संतापोऽपि निवार्यते नववचःप्राचुर्यमङ्कूर्यते
 सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥
वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधु[१]क्षते
 ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संप[२]द्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
 कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥ ७३ ॥
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
 श्रीकामाक्षिं मम क्षिणोतु ममतावैचक्षणीमक्षयान् ।
यद्भीत्येव नि[३]लीयते हिमकरो मेघोदरे शुक्तिका-
 गर्भे मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा ॥ ७४॥
हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्कूस्य-
 न्मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयन् ।
आनम्रेषु जनेषु पूर्णकरुणावेदाध्यमुत्तालय-
 न्कामाक्षि सितमञ्जरी तव कथंकार मया कथ्यते ॥ ७५ ॥


  1. संधुक्ष्यते इति -पाठ
  2. संपाद्यते' इति सर्वेषु पुस्तकेषुः पाठः
  3. विलीयते इति ग-पा