कोणेन कोमलदृशस्तव कामकोटि
शोणेन सोमया शिडे सम शोकसिसृम् ॥ ९४
मारद्रुहो मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिकं तरिष्णुः ।
कामाक्षि कोपरमसाद्वलमानमीन-
संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥
कामाक्षि संवलितमौक्तिककुण्डलांशु-
चञ्चसित[१]श्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरपाङ्गमये भवत्या
बद्धश्चकास्ति मकरव्वजमतहस्ती ॥ ९६ ॥
यावत्कटाक्षरजनीसमथानमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीघितिविम्बमम्ब-
[२]सविन्मयं हृदयपूर्वगिरीन्द्र श्रृङ्गे ॥ ९७ ॥
कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सु: समस्तविभवं नसतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसंय-
सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥
अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्वन्तगर्वनवीनसमस्त शास्वम् ।
अप्राप्तसत्यमसमीपगतं च मुक्ते:
कामाक्षि नैव तव क्राङ्घति दृष्टिपात: ॥ ९९ ॥