पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
पञ्चशती ।

कोणेन कोमलदृशस्तव कामकोटि
 शोणेन सोमया शिडे सम शोकसिसृम् ॥ ९४
मारद्रुहो मुकुटसीमनि लाल्यमाने
 मन्दाकिनीपयसि ते कुटिकं तरिष्णुः ।
कामाक्षि कोपरमसाद्वलमानमीन-
 संदेहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥
कामाक्षि संवलितमौक्तिककुण्डलांशु-
 चञ्चसित[१]श्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरपाङ्गमये भवत्या
 बद्धश्चकास्ति मकरव्वजमतहस्ती ॥ ९६ ॥
यावत्कटाक्षरजनीसमथानमस्ते
 कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीघितिविम्बमम्ब-
 [२]सविन्मयं हृदयपूर्वगिरीन्द्र श्रृङ्गे ॥ ९७ ॥
कामाक्षि कल्पविटपीव भवत्कटाक्षो
 दित्सु: समस्तविभवं नसतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसंय-
 सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥
अज्ञातभक्तिरसमप्रसरद्विवेक-
 मत्वन्तगर्वनवीनसमस्त शास्वम् ।
अप्राप्तसत्यमसमीपगतं च मुक्ते:
 कामाक्षि नैव तव क्राङ्घति दृष्टिपात: ॥ ९९ ॥


  1. स्मित- इति कु-ख-ग-पाठ:
  2. अप्राप्यसत्य इति क-ख-ग- पाठः