पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला।


अत्यन्तशीतलमनगलकर्मपाक-
 काकोलहारि सुलभ सुमनोभिरेतत् ।
पीयूषमेव तद वीक्षणमम्ब कि तु
 कामाक्षि नीलसिमित्ययमेव भेदः ॥ १०० ॥

इति श्रीमूककविसार्वभौमकृतौ पञ्चशत्यां कटाक्षशतकं प्रथमम्


मन्दस्मितशतकम् ।

बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
 कंदर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या धनसारपुञ्जरजसे कामगृहश्चक्षुषां:
 मन्दारतबकप्रभामदजुषे मन्दस्मितज्योतिषे ॥ १ ॥
सं[१]ध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
 राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विधे ।
स्वर्धुन्या सहयुध्वने हिमरुचेरर्घोसनाध्यासिने
 कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥
कर्पूरद्युतिचातुरीमतितरामल्यीयसी कुर्वती
 दौर्भाग्योदयमेव संविधती दोषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरानफुल्लानपि व्यञ्जती
 कामाक्ष्या मृदुलस्मितांशुलहरी काममसूरस्तु मे ॥ ३॥
या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
 या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते ।
या सौन्दर्यधुनीतरङ्गलतिषु व्यालोलहंसायते
 कामाक्ष्याः शिशिरीकरोतु हृदयं सा में स्मितप्राचुरी ॥ ४ ॥


  1. "सध्रीचे, आचार्याय, इत्यादिपदानि तुल्यतां लक्षयन्ति.