संमुखः सञ्शृङ्गाग्रकोट्या हत्वा कोणेन वादनदण्डेन वीणामिव वादयन् ।
• यः किल देवीपादमूले वीणां वादयति स मृतः स्वर्गमवाप्नोति॥
निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् ।
नाभौ वक्त्रं प्रविष्टाकृतिविकृति यया पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये वः ॥७॥
सा देवी कः श्रियेऽस्तु । यया दैत्याधीशो महिषो रणभुवि विनाशं गमितः
प्रापितः । कथंभूतः । अङ्गुष्ठकोठ्या निष्ट्यूतो निरस्तः । पुनः । नखशिखरेणा-
ङ्गुष्टनखाग्रेण हतस्ताडितः । पुनः । पार्ष्ण्या गुल्फाधोभागेन निर्यातः सारो
यस्य सः । पादपश्चिमाधोभागनिष्पीडित इति यावत् । पुनः । गर्भे पादमध्ये
दर्भाग्रसूचीलघुरिव न गणितः अतितुच्छो दृष्टः । किं कृत्वा । प्रविष्टाकृति-
विकृति यथा स्यात्तथा पादपातेन नाभौ वक्रं कृत्वा । आदौ पादघातेन त-
द्वक्त्रं तदीयनाभौ प्रवेशितम् , तदनन्तरं व्यापादितः । यद्वा प्रविष्टाकृतेः
स्वरूपस्य विकृतिर्विकारो यस्मिंस्तादृशं महिषस्य चक्रं पादपातेन तदीयनाभौ
प्रवेशयित्वा ॥
ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती ।
कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः
स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः सास्तु दुर्गा श्रिये वः ॥८॥
सा दुर्गा वः श्रियेऽस्तु । यस्याः पादं ह्रदं सरोवरमिव प्राप्य महिषः
स्वस्थो निर्वृतः स्वर्गस्थश्चाभूत् । किंभूतः । हरितहरेः सूर्यस्य शष्पलोभाद्वाल-
तृणगार्ध्यादिव ग्रस्ताश्वः । सूर्यस्याश्वा हरिद्वर्णाः सन्तीति महिषेण हरितको-
मलतृणबुद्ध्या कवलीकृताः । पुनः । अप्रसोढानलोष्मा असोढाग्नितेजाः । देव-
पक्षतयाग्नेस्तस्य दर्प न सहते । स्थाणौ महादेवे कण्डूं विनीय शिवेन सह
१. 'निष्णातसारः'. २. 'प्रतिष्ठाकृति'. ३. 'शान्त्यै शिवा वः'. ४. 'देवी
मुदे वः'.