काव्यमाला।
उत्त अथवा स्मरारेः शिवस्य नुतिभिः प्रार्थनाभिस्तिस्त्रः संध्याः स्वयंप्राप्ताः ।
संध्या अपि रक्तवर्णा भवन्ति ॥
दत्ते दर्पात्प्रहारे सपदि पदभरोपिष्टदेहावशिष्टां
श्लिष्टां शृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि ।
मुष्याद्वः कल्मषाणि व्यतिकरविरतावाददानः कुमारो
मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥५॥
अस्मिन्श्लोके कुमारो वः कल्मषाणि मुष्यादित्यन्वयो यदि विधीयते तदा
कुमारस्याप्राकरणिकत्वादप्रस्तुतान्वयता स्यात् । तस्मादेवमध्याहृत्य व्याख्ये-
यम्-सा माता वः कल्मषाणि मुष्यात् । यस्या मातुः कुमारो व्यतिकरवि-
रतौ महिषेण सह युद्धसमाप्तौ प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण शृङ्गस्य
कोटिमग्रमाददानो वर्तते । नेयं महिषङ्गकोटिः, किंतु मम मातुः कर्णा-
श्युत्तो नीलोत्पलकलिकारूपः कर्णपूर एवायमिति श्रद्धयेति भावः । कीदृ-
शीम् । दर्पान्मदात्प्रहारे दत्ते सति सपदि तत्क्षणं पदभरेण चरणगुरुत्वेनो-
स्पिष्टश्चूर्णितः स चासौ देहश्च तस्मादवशिष्टाम् । अथ च नूपुरग्रन्थिसीम्नि
श्लिष्टां लग्नाम् । कस्य देहावशिष्टाम् । महिषसुररिपोर्महिषरूपः सुररिपुस्तस्य ।
महिषशृङ्गाणि प्रायेण कठिनानि भवन्तीति शृङ्गकोटेरवशिष्टत्वकारणम् ॥
शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो
यस्याः पादोपशल्ये त्रिदेशपतिरिपुर्दूरदुष्टाशयोऽपि ।
नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्शृङ्गकोट्या
हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥ ६ ॥
सा शिवा वः शान्त्यै सुखायास्तु । किंभूता। विश्वोपकारप्रकृतिः सर्वोप-
कृतिस्वभावा जगदुपकारशीला वा । शश्वन्निरन्तरम् । पुनः कीदृशी । अवि-
कृतिर्विकाररहिता । यस्याः पादोपशल्ये चरणप्रान्ते त्रिदशपतिरिपुरिन्द्रवैरी
महिषो नाके स्वर्ग प्रतिष्ठां स्थितिं प्रापत् । चरणसंसर्गजनितपुण्यातिशयेन
स्वर्गनिवासी जात इति भावः । कीदृशः। दूरदुष्टाशयोऽपि नितरां नीचस्व-
भावोऽपि । किं कुर्वन् । रणितमणिं नूपुरमण्डलीमसकृद्वारंवारमभिमुखः
१."किल्बिषामि' २. 'महिषसुररिपुः.