पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चण्डीशतकम् ।

 जाह्नव्या या न जातानुनयपरहरक्षिप्तया क्षालयन्त्या
  नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
 तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
  पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या ॥ ३ ॥

 आर्या देवी जयत्युत्कर्षेण वर्तते । कथंभूता । नवमलक्तकमिव पादेनैव पीडयित्वा महिषं क्षिपन्ती । पादेनैवेति नियमेनान्ययोगव्यवच्छेदः । पुनः कथंभूता । तां शोभामादधाना धारयन्ती । [अर्थाच्चरणे । तां काम् । यानु- नयपरहरक्षिप्तया प्रसादनतत्परमहादेवप्रेरितया अत एव अक्षालयन्त्या । [ अर्था-च्चरणम् ।] जाह्नव्या गङ्गया न जाता । नूनं नूपुरेण या शोभा नो जाता। नखानां ज्योत्स्नया कान्त्या वा नो जाता । ग्लपित्तशशिरुत्वा इति जाह्नवीनूपुरज्योत्स्नानां विशेषणम् । कथंभूतं महिषम् । असुरसादाननिष्कार्यम् । अलवः प्राणा एव रसस्तस्यादानं ग्रहणं तेन निष्कार्य निष्प्रयोजनम् । यथाल- क्तकं पादेन निष्पीड्य तदीयं रसमादाय निःसारभागं क्षिपति कश्चित् , एवं देवी रसभूतान्प्राणानादाय महिषं क्षिप्तवतीति भावः । तां शोभामिति अलक्तकरसादाने या रक्तत्वलक्षणा भवति । किं त्वलक्तकेन कृत्रिमा शोभा, इयं तु स्वाभाविकी॥

 मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः
  किं वा कृष्णाङ्घ्रिंपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः ।
 प्राप्ताः संध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्त्र इत्यूह्यमाना
  देवैर्देवीत्रिशूलाहतमहिषजुषो रक्तधारा जयन्ति ॥ ४ ॥

 देवीत्रिशूलाहतमहिषजुषो देवीत्रिशूलकृतच्छिद्रमहिषशरीरादुद्गतास्तिस्रो रक्तधारा जयन्ति । किंभूताः। देवैरित्यमुना प्रकारेणो-ह्यमाना उत्प्रेक्ष्यमाणाः। इतीति किम् । अतिरसादतिगार्थ्याचुल्यं युगपदेव त्रिलोकीं ग्रसितुं मृत्योः किं नु जिह्वा निःसृताः। अर्थान्मुख-कुहरात् । किं वा कृष्णाङ्घ्रिंपद्मद्युतिभि-र्विष्णुचरणपङ्कजकान्तिभिररुणिता रक्ततां नीता विष्णुपद्या गङ्गायाः पदव्यः प्रवाहाः।


१. 'अनवमपुरहर-. २. 'याम्याः', ३. 'देव्यास्त्रिशूलक्षत-'.