पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

समरं कृत्वा मदकण्डूतिमपनीय । महिषो हि स्थाणौ कीलके कण्डूत्यपनयन करोति । पुनः। प्रतिमहिषरुषा महिषान्तरकोपेनेवान्तकोपान्तवर्ती यमस- मीपगन्ता जातः। पुनः । कृष्णं विष्णुं कृष्णवर्णत्वात्पङ्कमिवेच्छन्मज्जनाय जला- वगाहायेव वरुणं जलाधीशमुपगतः। एवं बहुष्वपि हरिदश्वप्रभृतिस्थानेषु भ्राम्यन्स्वास्थो यो न बभूव, स महिषश्चण्डीपादमूले स्वस्थतां प्राप । अन्यो- ऽपि महिषो हरिततृणलोलुपो भवति, अनलोष्माणं न सहते, स्थाणौ कण्डू- तिमपनयति, द्वितीयं महिषं विलोक्य कोपाविष्टो भवति, कृष्णवर्णकर्दमे लुठनेच्छया जलाशयं गच्छति, ह्रदं प्राप्य च स्वस्थो भवति ॥ त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री- मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु । ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तस्त्रिलोकीं पान्तु त्वां पञ्च चण्ड्याश्चरण खनिभेनापरे लोकपालाः॥९॥ चण्ड्याश्चरणनखनिभेनापरे पञ्च लोकपालास्त्वां पान्तु । किंभूताः । स्पर्शे- नैवातिरुषं महिषं पिष्ट्वा चूर्णयित्वा ये त्रिलोकीं त्रातवन्तो रक्षमाणाः । ननु ब्रह्मादयः क्व गताः, येन चण्डीपादनखा महिषं पिष्ट्वा लोकपालाः संवृत्ता- स्तत्राह-विवशे विह्वले धातरि ब्रह्मणि त्रैलोक्यातङ्कशान्त्यै त्रैलोक्योपद्रव- निवृत्तये ध्यानतन्द्रीं चिन्तारूपां प्रमीलां प्रविशति सति । यो हि तन्द्रीग्रस्तो भवति स विवशो भवत्येव । कथं लोकरक्षा भविष्यतीति चिन्ताकारणम् । किं च इन्द्रद्येष्विन्द्रप्रधानेषु द्रविणपतिपयःपालकालानलेषु कुबेरवरुणय- माग्निषु द्रवत्सु सङ्ग्रामान्निवर्तमानेषु सत्सु । इन्द्राद्याः पञ्च पलायिता इति देवीपादनखा लोकपाला जाताः । प्रालेयोत्पीडपीन्वां नखरजनिकृतामातपेनातिपाण्डुः पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः । यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी-

न्नो देव्या एव वामश्छलमहिषतनोर्ना कलोकद्विषोऽपि ॥ १०॥


१. 'त्रातवन्तो जगन्ति'. २. 'नखमिषेण'. ३. 'प्रालेयोत्पीडदीप्ताम्'; 'प्रा.

लेयोत्पीडदीव्यत्'.