पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
  पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।
 स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
  मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ।। ३९ ॥


 देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
  साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
 श्रीकैलासग्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
  सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ।। ४० ॥

 


 ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
  किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
 संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
  संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ।। ४२ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवपादादिकेशान्तवर्णनस्तोत्रम्

संपूर्णम् ॥