कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
वार्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शंभो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ।। २७ ॥
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्तालीभालसज्जज्जनिमरणलिपे: कुण्डले कुण्डले ते ।। २८ ॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९ ॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०॥