पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला ।

ततः कदाचित्तं राज्ञः प्रतिमापट्टमद्भुतम् ।
अपश्यमहमेकान्ते नूतनान्तःपुरे स्थितम् ॥ ११७ ।।
तत्र सर्वगुणोपेतां दृष्ट्वा नरपतेस्तनुम् ।
विद्युहत्ताभिधां देवीं विलोक्य स्फुटलक्षणाम् ॥ १५८ ॥
मानोन्मानप्रमाणज्ञचित्रवैचित्र्यसिद्धये ।
ध्यात्वाहं तिलकं तस्या गुह्यदेशे न्यवेशयम् ॥ १.५९ ॥
ततः संपूर्णलावण्यां कदाचिदवलोक्य ताम् ।
चित्रस्थां महिषीं राजा चुक्कोप्रेभ्योविनष्टधीः ।। १६० ॥
जघने लक्षणं देव्याः केनेदमुपपादितम् ।
नादृष्ट्वा विहितं मन्ये प्राहेत्यन्तःपुराश्रयात् ।। १६१ ।।
देव कात्यायनेनेदं न्यस्तं मन्निवरेण ते ।
इति वर्षधराच्छ्रुत्वा शकटालमुवाच सः ॥ १६२ ।।
पापो वररुचिः क्षिप्रं हन्यतामिति तद्वचः ।
प्रतिगृह्यैव मामेत्य शकटालो गृहेऽवदत् ॥ १६३ ॥
राज्ञा तब बधो दिष्टश्चित्रे तिलककारिणः ।
कर्ता नास्मि च तद्वाक्यं स्वं हि देवो न मानुषः ॥ १६४ ॥
अयत्नेन समर्थस्त्वं निहन्तुसपकारिणम् ।
इति ज्ञात्वा मया भीत्या रक्षितोऽसि न गौरवात् ॥ १६६ ॥
दुर्नीत्याभिहतो राजा ध्रुवमेव विनङ्क्ष्यति
नौरिवाकर्णधारा श्रीर्मन्त्रिहीना हि सीदति ॥ १६३ ॥
असमीक्षितकारित्वाच्छोच्यो नन्दस्त्वया बिना ।
आदित्यवर्मणो राज्ञः किं कथा न श्रुता त्वया ॥ १६७ ॥
इत्युक्त्वा संकटालो मा धृत्वा नूतः समन्दिरे
हतो मयेति राजानं चौरं हत्वा व्यजिज्ञपत् ॥ १६८ ॥
निगृहीतं तु मा राजा ज्ञात्वा पुरनिवासिनः ।
शुश्रुवुर्दुःखसंतप्ता बन्धुहीना इवानिशम् ॥ १३९ ॥


बुढ्योहामिल है दुनियातहतो ख..कलयो ख