महाभारतम्-05-उद्योगपर्व-157

विकिस्रोतः तः
← उद्योगपर्व-156 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-157
वेदव्यासः
उद्योगपर्व-158 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरेण श्रीकृष्णानुमत्या द्रुपदादीनां सप्तानां पृतगक्षौहिण्याधिपत्येऽभिषेचनपूर्वकं धृष्टद्युम्नस्य सर्वसैन्याधिपत्येऽभिषेचनम् ।। 1 ।।
बलरामस्य अक्रूरादिभिः सह पाण्डवदिदृक्षया कुरुक्षेत्रागमनम् ।। 2 ।।
युधिष्ठिरादिपूजितस्य तस्य बन्धुनिधनावलोकनासहिष्णुतया तीर्थनिषेवणार्थं गमनम् ।। 3 ।।


जनमेजय उवाच।

5-157-1x

आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम्।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ।।

5-157-1a
5-157-1b

बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ।।

5-157-2a
5-157-2b

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ।।

5-157-3a
5-157-3b

रणयज्ञे प्रवितते सुभीमे लोमहर्षणे।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ।।

5-157-4a
5-157-4b

किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ।।

5-157-5a
5-157-5b

वैशंपायन उवाच।

5-157-6x

आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः।
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ।।

5-157-6a
5-157-6b

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ।।

5-157-7a
5-157-7b

पितामहेन वो युद्धं पूर्वमेव भविष्यति।
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ।।

5-157-8a
5-157-8b

कृष्ण उवाच।

5-157-9x

यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ।।

5-157-9a
5-157-9b

रोचते मे महाबाहो क्रियतां यदनन्तरम्।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ।।

5-157-10a
5-157-10b

वैशंपायन उवाच।

5-157-11x

ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव।
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ।।

5-157-11a
5-157-11b
5-157-11c

एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः ।
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ।।

5-157-12a
5-157-12b

सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ।
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ।।

5-157-13a
5-157-13b

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ।।

5-157-14a
5-157-14b

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम्।
सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ।।

5-157-15a
5-157-15b

तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ।।

5-157-16a
5-157-16b

सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः ।
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ।।

5-157-17a
5-157-17b

वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ।
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ।।

5-157-18a
5-157-18b

नीलकौशेयवसनः कैलासशिखरोपमः ।
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ।।

5-157-19a
5-157-19b

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ।।

5-157-20a
5-157-20b

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन।
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ।।

5-157-21a
5-157-21b

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ।।

5-157-22a
5-157-22b

विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।
युधिष्ठिरेण सहित उपाविशदरिन्दमः ।।

5-157-23a
5-157-23b

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ।।

5-157-24a
5-157-24b

भवितायं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ।।

5-157-25a
5-157-25b

तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान्।
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ।।

5-157-26a
5-157-26b

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान्भावी मांसशोणितकदर्दमः ।।

5-157-27a
5-157-27b

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे।
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ।।

5-157-28a
5-157-28b

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ।।

5-157-29a
5-157-29b

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ।।

5-157-30a
5-157-30b

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ।।

5-157-31a
5-157-31b

न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ।।

5-157-32a
5-157-32b

उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे ।।

5-157-33a
5-157-33b

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ।।

5-157-34a
5-157-34b

वैशंपायन उवाच।

5-157-35x

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः।
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ।।

5-157-35a
5-157-35b

।। इति श्रीमन्महाभारते
उद्योगपर्वमि सैन्यनिर्याणपर्वणि
सप्तपञ्चाशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-157-13 इद्धात्प्रदीप्तात् ।। 5-157-16 महात्ययं अत्यन्तं क्षयकरम् ।। 5-157-24 रौहिणेयो बलरामः ।। 5-157-28 उपह्वरे एकान्ते ।।

उद्योगपर्व-156 पुटाग्रे अल्लिखितम्। उद्योगपर्व-158