पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० किंच सोमाहरणप्रवृत्तां त्वामेते अनुमन्यन्तां त्वा त्वां माता अनुमन्यतां त्वां पिता अनुमन्यतां त्वां भ्राता सगर्भ्यः समानगर्भभवः अनुमन्यतां । त्वां सखा सयूथ्यः समानयूथप्रभवः सखा अनुमन्यताम् । किंच या त्वं कृतसामग्रीकाऽस्माभिः सोमं प्रति गमने सा त्वं हे देवि दानादिगुणयुक्ते, देवमच्छेहि । 'अच्छाभेराप्तुमिति शाकपूणिः' । देवं सोममध्येहि अभिगच्छ । इन्द्राय सोमम् आहर्तुमिति शेषः। किंच । रुद्रस्त्वावर्तयतु रुद्रः त्वाम् आवर्तयतु । रुद्राज्ञां नातिक्रामन्ति पशवः । ततः स्वस्ति अविनाशेन सोमसखा सती पुनरागच्छ ॥ २० ॥
म० किंच सोमाहरणे प्रवृत्तां त्वां माता त्वदीया जननी अनुमन्यतामनुज्ञां ददातु । पितानुमन्यताम् । उपसर्गावृत्त्या क्रियापदावृत्तिः । सगर्भ्यः समाने गर्भे भवः सहोदरो भ्रातानुमन्यताम् । 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (६ । ३ । ८४) इति समानपदस्य सादेशः । सयूथ्यः समाने एकस्मिन्यूथे गोसमूहे भवः सयूथ्यः सखा वत्सोऽनुमन्यताम् । हे देवि सोमक्रयणि, सा त्वमिन्द्राय इन्द्रार्थं सोमं देवमच्छेहि प्राप्तुं गच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८)। किंच रुद्रः त्वा त्वां वर्तयतु सोमं गृहीत्वा स्थितां त्वां रुद्रो देवोऽस्मान्प्रति निवर्तयतु । यद्वा रुद्रः त्वां प्रवर्तयतु । यतो रुद्राज्ञां नातिक्रामन्ति पशवः । सोमो देवः सखा यस्याः सा सोमसखा । ईदृशी सोमसहिता सती स्वस्ति क्षेमेण पुनरेहि भूयोऽप्यागच्छ ॥ २० ॥

एकविंशी।
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ।। २१ ।।
उ० उदीची नीयमानामनुगच्छति । वस्व्यसि । अनुष्टुप् बृहती वा । वसुरूपेणादितिरूपेणादित्यरूपेण रुद्ररूपेण चन्द्ररूपेण स्तूयते गौः । किंच बृहस्पतिः त्वा सुम्ने सुखे रम्णातु संयमयतु । रम्णातिः संयमनकर्मा । रुद्रो वसुभिः सहितः आचके कामयतु । रक्षितुमिति शेषः । आचक इति कान्तिकर्मसु पठितम् ॥ २१ ॥
म०. 'उदीचीं नीयमानामनुगच्छतो वस्व्यसीतीति' ( का. ७ । ६ । १६) । अनुष्टुब्बृहती वा । सोमक्रयण्याः स्तुतिः । सोमक्रयणी गौर्वस्वदित्यादित्यरुद्रचन्द्ररूपेण स्तूयते वस्वीत्यादिपञ्चविशेषणैः । हे गौः, त्वं वस्वी वसुरूपासि । अदितिर्देवमातासि । द्वादशादित्यरूपासि । रुद्रा एकदशरुद्ररूपासि । चन्द्ररूपा चासि । किंच बृहस्पतिः सुम्ने त्वां रम्णातु रमयतु । रमतेर्व्यत्ययेन श्नाप्रत्ययः । यद्वा रम्णातु संयमयतु । 'रम्णातिः संयमनकर्मा विसर्जनकर्मा वा' (निरु० १० । ९) इति यास्कः । रुद्रो वसुभिः अष्टदेवैः सहितः त्वामाचके रक्षितुं कामयताम् । आचक इत्यादि चकमान इति कान्तिकर्मसु पठितः ॥२१॥

द्वाविंशी ।
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑: ।। २२ ।।
उ० पदे जुहोति । अदित्यास्त्वा अदित्याः पृथिव्यास्त्वाम् हे आज्य, मूर्धनि शिरसि आजिघर्मि । ' घृ क्षरणदीप्त्योः' आक्षारयामि । देवयजने पृथिव्याः इडाया गोः पदं यतस्त्वमसि अतो घृतवत् घृतयुक्तं त्वां कर्तुं जुहोमीति शेषः । पदं लिखति । अस्मे रमस्व अस्मासु रतिं कुरु । पदं स्थाल्यामावपति । अस्मे ते बन्धुः वयं ते तव बन्धुभूताः । यजमानाय पदं प्रयच्छति । त्वे रायः । पशवो वै रायः । त्वयि पशवः सन्त्विति शेषः । पदं यजमानः प्रतिगृह्णाति । मे रायः । मयि पशवः सन्त्विति शेषः । | अध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्म मा विभक्ताः स्याम वयं धनस्य पोषेण । गृहीतपदां पत्नी वाचयति । तोतोरायः । त्वयि रायः पशवः सन्त्विति शेषः ॥२२॥ ।
म० षट्पदान्यतीत्य सप्तमं पर्युपविशन्ति हिरण्यमस्मिन्निधायाभिजुहोत्यदित्यास्त्वेतीति' (का० ७ । ३ । १७-१८)। | आज्यदैवतं यजुः । अदित्याः अखण्डितायाः पृथिव्याः भुवो मूर्धन् मूर्धनि शिरोरूपे देवयजने देवानां यागयोग्यस्थाने हे आज्य, त्वा त्वामाजिघर्मि आक्षारयामि । 'घृ क्षरणदीप्त्योः ' । 'पृथिव्या ह्येष मूर्धा यद्देवयजनम्' इति तित्तिरिश्रुतेर्देवयजनस्य पृथिवीमूर्धत्वम् । किंच हे स्थानविशेष, त्वमिडायाः गोः पदमसि गोपदेनाङ्कितत्वात्तद्रूपमसि । तच्च पदं घृतवत् घृतयुक्तं कर्तुं स्वाहा जुहोमि । 'स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति' (का० ७ । ६ । १९) । हे गोः पद, त्वमस्मे अस्मासु रमस्व क्रीडां कुरु । 'समुद्धृत्य पदᳪ स्थाल्यामावपत्यस्मे ते बन्धुरिति' (का० ७ । ६ । २०)। हे सोमक्रयणीपद, ते तव अस्मे बन्धुः वयं बन्धुभूताः स्मः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति जसः शेआदेशे अस्मे इति रूपम् । 'यजमानाय पदं प्रयच्छति त्वे राय इति' (का० ७ । ६ । २१) । हे यजमान, त्वे त्वयि रायो धनानि एतत्पदरूपेण तिष्ठन्त्विति शेषः । यद्वात्र रायः पशवः । 'पशवो वै रायः' (३ । ३ । १।८) इति श्रुतेः। त्वयि पशवः सन्तु । 'मे राय इति यजमानः प्रतिगृह्णातीति' (का. ७ । ६ । २२) । मे मयि यजमाने रायो धनानि पदरूपेण तिष्ठन्तु । पशवो मयि सन्तु । ङेः शेआदेशे मे इति रूपम् । ‘मा वयमित्यध्वर्युरात्मानᳪ संस्पृशतीति'