पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(का. ७।६।२३) । वयमध्वर्युप्रभृतयो रायस्पोषेण धनस्य पुष्ट्या मा वियोष्म वियुक्ता मा भवाम । यौतेः 'माङि लुङ्' (पा० ३।३।१७५) इति लुङि उत्तमबहुवचने वियौष्मेति रूपम् । 'हृत्वा पत्न्यै पदं प्रयच्छति नेष्टा तोत इत्येनां वासयतीति' (का० ७ । ६ । २४-२५) । तोतःशब्दः कलत्रवाची अव्ययम् । तोतः कलत्रे रायो धनानि पशवो वा पदरूपेण तिष्ठन्तु । यद्वाव्ययानामनेकार्थत्वात्तोतःशब्दो युष्मत्पर्यायः । तोतः त्वयि रायः सन्तु ॥ २२ ॥

त्रयोविंशी।
सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयु॒: प्रमो॑षी॒र्मो अ॒हं तव॑ ।
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑ ।। २३ ।।
उ० सोमक्रयण्या समीक्षयति । समख्ये । पत्न्याशीः । आस्तारपङ्क्तिः। सोमक्रयणीतः पत्न्याशिषमाशास्ते। यया त्वया अहं समख्ये । 'ख्या प्रकथने' । संदर्शनं कृतवती । देव्या दानादिगुणयुक्याक । धिया प्रज्ञया । सहार्थे तृतीया । संदक्षिणया उरुचक्षसा समख्ये च दक्षिणया सह । गौर्हि प्रायशो दक्षिणा दीयते । उरुचक्षसा विस्तीर्णदर्शनया । वाचोभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । सा त्वं मा म आयुः प्रमोषीः । 'मुष स्तेये। मा प्रमोषीः मावखण्डय मम आयुः। मा अहं तवायुः प्रमोषिषम् । किंच वीरं विदेय । विदिर्लाभार्थः । पुत्रं लभेय । संदृशि हे देवि, तव संदर्शने सति ॥ २३ ॥
म० सोमक्रयण्या च समीक्ष्यमाणाᳪ समख्य इतीति' (का० ७॥ ६ । २६)। एनां वाचयतीत्यनुवर्तते । आस्तारपङ्क्तिः पत्न्याशीः । यस्या आद्यावष्टाक्षरौ पादावन्त्यौ द्वादशाक्षरौ सास्तारपङ्क्तिः । अन्त्यौ चेदास्तारपङ्क्तिरिति वचनात् । सोमक्रयणीतः पत्न्याशिषमाशास्ते । हे सोमक्रयणि, देव्या द्योतमानया त्वया धिया बुद्ध्या सह बुद्धिपूर्वकमहं समख्ये अदृक्षि दृष्टेत्यर्थः । 'ख्या प्रकथने' इत्यस्य धातोः संपूर्वस्य लुङि तङि 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १।५२) इति च्लेरङि उत्तमैकवचने कर्मणि समख्ये इति रूपम् । एकं संपदं पादपूरणाय । किंभूतया त्वया । दक्षिणया दक्षिणात्वयोग्यया । तथा उरुचक्षसा उरु चष्टे सोरुचक्षास्तया विस्तीर्णदर्शनया । एवंविधा त्वं मे मम पत्न्या आयुः मा प्रमोषीः मा खण्डय । 'मुष स्तेये लुङि रूपम् । मो अहं तव । तव सोमक्रयण्या आयुरहं पत्नी मा उ मैव प्रमोषिषमित्यध्याहारः । मार्थे मो इत्यव्ययं वा । अहं तवायुर्न नाशयामीत्यर्थः। किंच वीरं विदेय तव देवि संदृशि। हे देवि गौः, तव संदृशि संदर्शने सति वीरं पुत्रं विदेय लभेय । संदर्शनं संदृक् भावे क्विप् । 'विद्लृ लाभे' इत्यस्य व्यत्ययेन 'तुदादिभ्यः शः' (पा० ३। १ । ८७) इति शप्रत्यये लिङि रूपम् ॥ २३ ॥

चतुर्विंशी।
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ᳪ साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ।।२४ ।।
उ० यजमानं वाचयति । एष ते गायत्रो भागः । हे सोम, एष ते तव गायत्रीसंबन्धी भागः अंशः इति एवं मे यजमानाभिधायकं पदम् । सोमायेति षष्ठ्यर्थे चतुर्थी । मम वचनमेवं सोमस्य ब्रूतात् कथयत। हे अध्वर्यवः, छन्दोर्थं तव क्रयो न वधार्थम् । एवं यजमानाभिप्रायः । एतदध्वर्यवः सोमस्य कथयन्तीति वाक्यार्थः । एष ते त्रैष्टुभो भागः । एष ते जागत इत्यनेनैव व्याख्यातौ । छन्दोनामानाम् । नामशब्दोऽनर्थकः । अन्येषामपि छन्दसां साम्राज्यमाधिपत्यं गच्छ इति एवं मे ममाभिप्रायं सोमस्य ब्रूतात् कथयत । हे अध्वर्यवः । अनापि मे इत्येतत्पदं यजमानवाच्यमेव । सोममालभते । आस्माकोसि । यस्त्वां हे सोम, क्रयार्थमुपागतः स आस्माको मदीयः संजातः । शुक्रस्ते ग्रहः । उपलक्षणार्थः । शुक्रप्रभृतयो ग्रहास्तव ग्रहीष्यन्ते । किंच विचितः विचयनकर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु ॥ २४ ॥
म० एष त इति वाचयतीति' (का० ७ । ७ । ८)। मन्त्रचतुष्टय यजमानः पठेत् । हे अध्वर्यो, सोमाय सोमाभिमानिने देवाय मे इति वचो ब्रूतात् वं ब्रूहि कथय । इति किम् । हे सोम, ते तव एष पुरो दृश्यमानो भागो गायत्रो गायत्रीसंबन्धी । गायत्रीच्छन्दोऽर्थं तव क्रयो नतु वधार्थमिति यजमानाभिप्रायः । तं ममाभिप्रायं सोमाय कथयेत्यर्थः । ते तव एष त्रैष्टुभः त्रिष्टुप्छन्दसः संबन्धी भाग इति मेऽभिप्रायमध्वर्यो, सोमाय त्वं ब्रूहि । एवमग्रेऽपि । जागतो जगतीच्छन्दसः संबन्धी । अन्यत्पूर्ववत् । छन्दोनामानां छन्द इति नाम येषामन्येषामप्युष्णिगादीनां ताः छन्दोनामानः तेषां साम्राज्यं गच्छ सर्वेषां छन्दसामाधिपत्यं प्राप्नुहि। इति मे वचः सोमाय ब्रूतात्कथय । यः सोमाय छन्दसामाधिपत्यं दत्त्वा क्रीणाति तं स स्वानामाधिपत्यं प्राप्नोति। तदुक्तं तित्तिरिणा 'यो वै सोमं राजानᳪ साम्राज्यलोकं गमयित्वा क्रीणाति गच्छति स्वानाᳪ साम्राज्यमिति' । अत एतैर्मन्त्रैः सोमस्य राज्याप्तिः सूचिता । गायत्र्यादिच्छन्दोदेवता यत्र तिष्ठन्ति स छन्दोलोकस्तदाधिपत्यं प्रापय्य सोमं क्रीणानः स्वाधिपत्यभाग्भवतीत्यभिप्रायः । 'प्राङुपविश्यास्माकोऽसीति सोममालभते' (का० ७।७।९) इति । हे