पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मशीय प्राप्नुयाम् । स्वाहा इदमाज्यं हुतमस्तु । 'शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधातीति' (का० ७ । ६ । १०)। जुह्वां बद्ध्वा स्थापितं हिरण्यमुद्धरेत् । शुक्रमसि । हिरण्यं देवता । हे हिरण्य, त्वं शुक्रमसि । शोचते शुक्रम् । 'शुच दीप्तौ' । दीप्यमानमसि । तथा चन्द्रमाह्लादकमसि । 'चदि आह्लादने' । चन्दतीति चन्द्रम् । अमृतं विनाशरहितमसि । अग्निसंयोगेऽपि हिरण्यस्य विनाशाभावः प्रसिद्धः । 'अग्नौ सुवर्णमक्षीणम्' इति याज्ञवल्क्योक्तेः । वैश्वदेवमसि । विश्वेषां देवानामिदं वैश्वदेवं सर्वदेवसंबन्धि । सर्वोऽपि देवो हिरण्यदानेन तुष्येत् ॥ १८॥

एकोनविंशी।
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।। १९ ।।
उ० सोमक्रयणीमभिमन्त्रयते वागूपाध्याहारोपकल्पनया। त्वं चिदसि । चित्तस्य मनसोऽनुवादिनी भवसि । या च मनोसि प्रज्ञासि । या च धीरसि बुद्धिर्भवसि । 'धिया ह्येतया मनुष्या जुजूषन्ति जीवितुमिच्छन्ति' इति श्रुतिः। या च त्वं दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इत्येतदभिप्रायम् । तेभ्यो वाचं दक्षिणामानयन्नित्येतदभिप्रायं वा । या च क्षत्रियासि । क्षतात् त्रायत इति क्षत्रियः । जात्या स्तूयते वा । या च यज्ञियासि यज्ञार्हासि । या च अदितिरसि । अदीनासि । या च उभयतःशीर्ष्णी उभयतोमुखी । वाक्ये पदानामन्यथाचान्यथा च क्रमो भवतीत्येतदभिप्रायम् । स यदेनया सयानᳪसविपर्यासं वदति' इत्यादिश्रुतिः । सा नः सुप्राची सुप्रतीची एधि । या त्वमुक्तगुणासि सास्माकं सुप्राची भव। सोममभिगच्छेत्यर्थः । सुप्रतीच्येधि । साधु अस्मान् प्रति सोमं गृहीत्वा आगच्छेत्यर्थः । 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' इति श्रुतिः । किंच । मित्रस्त्वा पदि बध्नीताम् । मित्र आदित्यस्त्वां पदि पादे बध्नातु अप्रणाशाय । किंच पूषाध्वनस्पातु इयं वै पृथिवी पूषा सा त्वामध्वनः मार्गात् पातु रक्षतु । किंच इन्द्रायाध्यक्षाय । चतुर्थ्याः षष्ठ्या विपरिणामः । अधि उपरि अक्षिणी यस्य सोऽध्यक्षः । इन्द्रस्याध्यक्षस्य सतः ॥ १९॥
म० 'चिदसीत्येनामभिमन्त्रयते' (का० ७ । ६ । १५) इति कण्डिकाद्वयेन । एनां सोमक्रयणीमित्यर्थः । वाग्रूपाध्यारोपकल्पनया सोमक्रयणी गौः स्तूयते । हे वाग्देवतारूपे सोमक्रयणि, त्वं चिदसि मनोऽसि धीरसि । अन्तःकरणस्य चित्तमनोबुद्धय इति तिस्रो वृत्तयः । तल्लक्षणानि । अचेतन देहादिसङ्घातस्य चेतनत्वं संपादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तं तदेवात्र चिदित्युच्यते । लोके कंचित्पदार्थं दृष्ट्वा एवं भवति न वेति संकल्पविकल्पौ कुर्वाणा वृत्तिर्मनः तदेवात्र मन इत्युच्यते । इदमित्थं भवत्येवेति निश्चयरूपा वृत्तिर्बुद्धिः सैवात्र धीशब्देनोच्यते । वागात्मिका सोमक्रयणी चिन्मनोधीरूपत्वेन प्रशस्यते । चिदादिरूपत्वमारोप्य स्तुतिः कृता । दक्षिणादिरूपत्वं तु विद्यमानमेव स्तूयते । हे गौः, त्वं दक्षिणासि । गवां देयद्रव्यत्वेन कर्मसु दक्षिणात्वं प्रसिद्धम् । यद्वा वाग्दानस्य प्रशस्त त्वाद्दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इति स्मृतेः । तथा क्षत्रियासि सोमक्रयसाधनत्वेन । तथाहि । देवेषु क्षत्रजात्यभिमानी सोमः । तदुक्तं बृहदारण्यके 'यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः' (माध्य० १ । २ । १३) इति । तेन सोमेन क्षत्रेणाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वेन त्वं क्षत्रियासि । तद्रूपं चास्याः क्रयद्वारा तत्संबन्धित्वादुपचर्यते । अतएव यज्ञसंबन्धित्वाद्यज्ञिया यज्ञार्हासि । अदितिः अखण्डिता अदीना देवमातृरूपासि । नास्ति दितिर्यस्याः सा । 'अदितिरदीना देवमाता' (निरु० ४ । २२) इति यास्कः । तथा उभयतःशीर्ष्णी उभयतः शीर्षे यस्याः सा । ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोः शीर्षत्वम् । 'द्वे शीर्षे प्रायणीयोदयनीये' | (निरु० १३ । ७) इति यास्कोक्तेः । यद्वोभयतःशीर्ष्णी सर्वतोमुखी वाग्रूपत्वात् । स यदेनया समानं सद्विपर्यासं वदति' (३ । २ । ४ । १६) इति श्रुतेः । सा पूर्वोक्ता | चिदादिरूपा त्वं नोऽस्मदर्थे सुप्राची सुप्रतीची च एधि भव । | सुष्ठु प्राङञ्चतीति सुप्राची । सुष्ठु प्रत्यङ्ङञ्चतीति सुप्रतीची। प्रथमं सोमस्य क्रेतारं प्रति सुष्ठु प्राङ्मुखीभूत्वा पश्चात्सोमेन सहास्मान्प्रत्यागन्तुं सुष्ठु प्रत्यङ्मुखी भवेत्यर्थः । तथाच श्रुतिः 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' (३ । २ । ४ । १७) इति । किंच मित्रः सूर्यः पदि दक्षिणपादे त्वा त्वां बध्नीतां बन्धनं करोतु अप्रणाशाय । तथा पूषा पोषको देवः सूर्य एवाध्वनो मार्गात्पातु त्वां रक्षतु । यद्वा पूषेत्याबन्तं स्त्रीलिङ्गं पदम् । पूषा पृथिवी त्वां मार्गात् पातु 'इयं वै पृथिवी पूषा' ( ३।२।४।१९) इति श्रुतेः । किमर्थम् । इन्द्राय इन्द्रप्रीत्यर्थम् । किंभूतायेन्द्राय । अध्यक्षाय अधि उपरि अक्षिणी यस्य सोऽध्यक्षस्तस्मै द्रष्ट्रे । यज्ञस्वामिने इत्यर्थः ॥ १९ ॥

विंशी।
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ।। २० ।।