सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः १५ ]
६७
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

एवं तु []मत्वा हनुमान्महात्मा प्रतीक्षमाणो []मनुजेन्द्रपत्नीम् ॥
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ ५२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः सर्गः ॥ १४ ॥


पञ्चदशः सर्गः ॥ १५ ॥

शिंशुपाविटपाग्रावस्थानेनैव सर्वतश्चक्षुषीचालयताहनुमताऽत्यद्भुताकारचैत्यप्रासादगताया ग्रन्थकृदुपवर्णितगुणावस्थोपलक्षितायाःसीतायाअवलोकनं ॥ १ ॥ अथबहुहेतुभिस्तस्याःसीतात्वनिर्धारणं ॥ २ ॥

[]स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ॥ अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ १ ॥
सन्तानकलताभिश्च पादपैरुपशोभिताम् ॥ दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ २ ॥
तां स नन्दनसंकाशां मृगपक्षिभिरावृताम् ॥ हर्म्यप्रासादसंबाधां कोकिलाकुलनिस्वनाम् ॥ ३ ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ॥ बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ ४ ॥
सर्वर्तुकुसुमै []रम्यां फलवद्भिश्च पादपैः ॥ पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ ५ ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ॥ निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ ६ ॥
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ॥ []आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ ७ ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ॥ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८ ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ॥ पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥
विवृद्धमूला बहवः शोभन्ते स सुपुष्पिताः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निर्शिखो[]पमाः ॥ नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ १० ॥
नन्दनं विविधो[]द्यानं चित्रं चैत्ररथं यथा ॥ []अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं []श्रिया वृतम् ॥ ११ ॥


...पर्णसमूहे । महात्मा स हनुमान् । पुष्पिता...विशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य ...ष्यति सावश्यमिमां शिवजलां नदीमित्यन्तेन ...ार उक्तः एवमुक्तप्रकारेणमत्वा । मनुजेन्द्रपत्नीं ...ाणः अवेक्षमाणः मार्गमाणः । सुपुष्पिते ...निलीनश्च सन् सर्वं ददर्शेत्यन्वयः ॥ ५२ ॥ ...श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ...तिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥ १४ ॥


 तत्रस्थः शिंशुपास्थः। मैथिलीमार्गमाणः मैथिली...द्धेतोः । "लक्षणहेत्वोः क्रियायाः" इति शानच् । ...माणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः

सर्वां तां अशोकवनिकां अन्ववैक्षतेत्यन्वयः ॥ १-३ ॥ बह्वासनैः कुथैः आस्तरणैश्चोपेतां । भूमिगृहाणि बिलगृहाणि ॥ ४ ॥ सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभां उद्यत्सूर्यप्रभां ॥ ५ ॥ विहगैः निष्पत्रशाखां क्रियमाणामिव स्थितां । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥ ६ ॥ पुष्पावतंसकैः चञ्चुपुटलग्नपुष्पालंकृतैरित्यर्थः । आमूलेति आमूलं पुष्पैर्निचितैः व्याप्तैः । पुन्नागादौ तथा दृष्टं ॥ ७ ॥ पुष्पभारः पुष्पसमूहः स एवातिभारो येषां तैः । अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षितां समुदैक्षतेति पूर्वेणान्वयः ॥ ८-१० ॥ पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति---नन्दनमित्यादिना श्लोकच-


  1. झ. ञ. ट. गत्वा.
  2. ग. पुत्रीं.
  3. घ. समीक्षमाणस्सर्वत्र. क. वीक्षमाणस्तुतत्रस्थो.
  4. ग. ङ.---ट. रम्यैः.
  5. ...ङ. झ. ञ. ट. समूलंपुष्परचितैः. क. ग. च. छ. ज. समूलंपुष्पविचितैः. ख. आमूलपुष्पोपचितैः.
  6. ङ. झ. ट. शिखप्रभाः.
  7. ...ख. ङ. झ. ञ. ट. विबुधोद्यानं.
  8. ख. अभिवृद्धमिवा.
  9. क. ग. ङ. झ. ञ. ट. श्रियायुतं.