पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
[ सुन्दरकाण्डम् ५
श्रीमद्वाल्मीकिरामायणम् ।

[१]लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥ काञ्चनीं शिंशुपामेकां ददर्श [२]हनुमान्कपिः ॥
वृतां [३]हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ ३७ ॥
सोपश्यद्भूमिभागांश्च [४]गर्तप्रस्रवणानि च ॥ सुवर्णवृक्षानपरान्ददर्श शिखि[५]सन्निभान् ॥ ३८ ॥
तेषां द्रुमाणां प्रभया मेरोरिव [६]दिवाकरः ॥ अमन्यत तदा वीरः काञ्चनोस्मीति [७]वानरः ॥ ३९ ॥
[८]तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् ॥ किङ्किणीशतनिर्घोषां दृष्ट्वा [९]विस्मयमागमत् ॥ ४० ॥
स पुष्पिताग्रां [१०]रुचिरां तरुणाङ्कुरपल्लवाम् ॥ तामारुह्य [११]महाबाहुः शिंशुपां पर्णसंवृताम् ॥ ४१ ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ॥ इतश्चेतश्च दुःखार्तां [१२]संपतन्तीं यदृच्छया ॥ ४२ ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ॥ [१३]चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥ ४३ ॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता ॥ इमां सा [१४]राममहिषी नूनमेष्यति जानकी ॥ ४४ ॥
सा रामा [१५]राममहिषी राघवस्य प्रिया [१६]सती ॥ वनसंचारकुशला [१७]नूनमेष्यति जानकी ॥ ४५ ॥
अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ॥ वनमेष्यति [१८]सार्येह [१९]रामचिन्तानुकर्शिता ॥ ४६ ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ॥ [२०]वनवासे रता नित्यमेष्यते वनचारिणी ॥ ४७ ॥
वनेचराणां सततं नूनं स्पृहयते [२१]पुरा ॥ रामस्य दयिता [२२]भार्या जनकस्य सुता सती ॥ ४८ ॥
संध्याकालमनाः श्यामा [२३]ध्रुवमेष्यति [२४]जानकी ॥ नदीं चेमां [२५]शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ ४९ ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ॥ शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमता ॥ ५० ॥
यदि जीवति सा देवी ताराधिपनिभानना ॥ आगमिष्यति साऽवश्यमिमां [२६]शिवजलां नदीम् ॥ ५१ ॥


वेदिकायुक्ताः ॥ ३६-३९ ॥ काञ्चनैस्तरुगणैः उपलक्षितां तां शिंशुपां । किङ्किणीशतनिर्घोषां किङ्किण्यः क्षुद्रघण्टिकाः तासां निर्घोषो यस्याः । यद्वा किङ्किणीभिः शतमनन्ताः निर्घोषा यस्याः सा तां ॥ ४० ॥ स पुष्पिताग्रामित्याद्यासर्गसमाप्त्येकं वाक्यं ॥ ४१ ॥ इतो द्रक्ष्यामि इमामारुह्य द्रक्ष्यामि । ल्यब्लोपे पञ्चमी ॥ ४२ ॥ दुरात्मनः रावणस्य ॥ ४३-४५ ॥ अथवेति पक्षान्तरे । विचक्षणा

तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनं । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतद्वनप्रदेशमागमिष्यतीत्यर्थः । सा आर्येति... ॥ ४६ ॥ एष्यते एष्यति ॥ ४७ ॥ ... स्पृहयते वनेचरेभ्यस्पृहयते ॥ ४८ ॥ संध्याक... यस्यास्सा संध्याकालमनाः संध्योपासनतत्परे... संध्यार्थे एष्यति प्रतिदिनमितिशेषः ॥ ४९-...

तन्यतेवर्ध्यते सतं ॥ २८ ॥ शि० मेरोरिव द्रुमाणांप्रभयोपलक्षितोमहाकपिः अहंकाश्चनोस्मीत्यमन्यत ॥ ३९ ॥ ति० ... दिनरात्र्योःसन्धिरूपानुष्ठानकालोयस्यकर्मणस्तत्रमनोयस्यास्सातथा। सन्ध्यार्थे सन्ध्याकालक्रियमाणस्नानाद्यर्थे । पूर्ववदे... क्तस्यैवार्थस्यावृत्तिः। रात्रिशेषे हनुमतोस्यवचसःप्रवृत्तेः सन्ध्याशब्देनात्रप्रातःकालोविवक्षितः । तत्रकर्तव्यस्नानादौचास्त्ये... मप्यधिकारइति कथंस्त्रीणांसन्ध्यावन्दनमितिपरास्तंवेदितव्यं । किंच सम्यग्भगवद्ध्यानस्यैव सन्ध्यापदार्थत्वेनास्त्येव तत्रस्त्रि... कारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकध्यानेतु द्विजस्यैवाधिकारइत्यन्यत् ॥ ४९ ॥ इतिचतुर्दशः सर्गः ॥ १४ ॥

  1. घ. च. छ. ज. लतावितानैः.
  2. क. ङ.---ट. समहाकपिः.
  3. च. हेममयीभिश्च.
  4. ङ. झ. ञ. ... स्रवणानिच.
  5. घ. गिरिसंनिभान्.
  6. क. घ. ङ. ट. महाकपिः.
  7. ङ. झ. ट. सर्वतः.
  8. ग. ङ. झ. ञ. ट. तान्का... क्षगणान्मारुतेनप्रकंपितान् । किङ्किणीशतनिर्घोषान्दृष्ट्वा.
  9. क. च. छ. ज. मागतः.
  10. क. च. छ. ज. हनुमांस्तर...
  11. क. ग.---ट. महावेगः.
  12. झ. ञ. संतपन्तीं.
  13. ग. ङ.---ट. चन्दनैश्चंपकैश्चापि.
  14. क. ख. ग. ङ. च. छ. ... ञ. ट. राजमहिषी.
  15. ङ---ट. राजमहिषी.
  16. ख.---ङ. ञ. ट. सदा.
  17. घ.---ट. ध्रुवं.
  18. ङ. झ. ञ. ... साद्येह. घ. साध्वीह.
  19. ङ.---ट. सुकर्शिता.
  20. ख.---ट. वनवासरता.
  21. क. सदा.
  22. ङ. झ. ञ. चार्या. ...
  23. ... नूनं.
  24. ग. मैथिली.
  25. ख. घ.---ट. शुभजलां. क. शीतजलां.
  26. ख. ग. ङ.---ट. शीतजलां.