पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा] लज्जवलोपेते द्वितीय: प्रश्नः । आवसथो विश्रामस्थानम् । उपरिशध्या खट्वा । उपस्तरणं तूलिका । उपधानमुपबहणम् । अवस्तरणमुपरिपटः । तत्सहितमुपधानमुपस्तरण च । अभ्यञ्जन पादयोः तैलं घृत वा । एतत्सर्व दद्यात् । भोजनात्यामूर्ध्व वा अपेक्षिते काले । इतिशब्दादन्यदप्यपेक्षितम् ॥ १५ ॥ अन्नसंस्कारमाहूय ब्रीहीन यवान्या तदर्थानिपेत् ॥ १६॥ यः पचति तमन्नसंस्कारमाहूय तदर्थानतिथ्यर्थान् नादीन्यवान्का निर्वत् पृथक्कुत्य दद्यात्-अमुम्मै पचेति । बीहियवग्रहणमुपलक्षणम् । इदं भु. तवत्सु सर्वेष्वतिथावुपस्थिते द्रष्टव्यम् ॥ १६ ॥ भोजनकाले स्वाह- उद्धृतान्धनान्यवेक्षतेदं भूयाइद३ मिनि ॥ १७ ॥ यावन्तो भोक्तारस्तावद्वा अन्नान्युद्धृत्य पृथयात्रेषु कृत्वा स्वयं संविभागं कृत्वा तायनान्यवेक्षेत-किमिद भूयः प्रभूतमिदं वेति । बि. चारे प्लुतः। (१) पूर्व तु भाषायामित्येतदुपेक्षितं छान्दसोऽयं (२)प्र योग इति ॥१७॥ भृय उद्धरेत्येव ब्रूयात् ॥ १८॥ एवमधेश्याऽतिथ्यर्थ भूय उद्धरेत्येव ब्रूयात् ॥ १८ ॥ द्विषन्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमा- नस्य मीमांसितस्य वा ॥ १९ ॥ य स्वयमतिथि द्विषन्भवति यो वाऽऽत्मानं द्वेष्टि यो वाऽऽत्मानं दोषेण मीमांसते आत्मनि स्तेयादिदोष सम्भावयति ।यो वा दोषेण मीमांसितः यत्र लौकिका दोषं सम्भावयन्ति, तस्याऽस्य सर्वस्यानं नाश्नीयात्॥१९॥ तत्र हेतु:- पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ॥२०॥ यः एवविधस्याऽनमश्नाति, स तस्व पापमानमेव भक्षयतीति वि- ज्ञायते ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने षष्ठी कण्डिका ॥ ६ ॥ २. प्लतप्रयोगः इति च. पु..