पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ आपस्तम्बधर्मसूत्रे [(५.३.)क.. स एष प्रजापत्यः कुटुम्बिनो यज्ञो नित्यमततः ॥१॥ स एषोऽभिहितो मनुध्ययनः प्राजापत्यः प्रजापतिना इष्टः, तवत्यो पा। कुटुम्बिनो नित्यप्रततो, या नाऽग्निष्टोमादिवत् कादाचित्कः ॥१॥ तस्याऽमीन सम्पादयति- योऽतिथीनामग्निः स आहवनीयो या कुटुम्बे स माह पत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥२॥ योऽतिथानां जाठरोऽग्निः स भावाहनीय., तत्र हि हूयते । यः कुटु म्बे गृहे अग्निरोपासनः स गार्हपत्यः, नित्यधार्यत्वात् । यस्मिन् पच्यते(१) लौकिकानौ सोऽन्याहार्यपचन. दक्षिणाग्निः, तत्र (२)ह्मन्बाहार्य पच्यते ॥२॥ ऊजे पुष्टिं प्रजा पशुनिष्टापूतमिति गृहाणामानाति यः पूर्वोऽतिथेरश्नाति ॥ ३॥ योऽतिथेः पूर्वमश्नाति स गृहाणा कुलस्य सम्बन्धि ऊर्मादिकमश्नाति भक्षयति विनाशयति । ऊर्गन्नम् । इटमग्निहोत्रादि । पूर्त स्माते कर्म(३) पखा तादि । अन्ये प्रसिद्धाः ॥३॥ पय उपसेचनमन्नमाग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं, मधुनातिरात्रसमिसतं, मासेन बादशाहसम्मित, मुदकेन प्रजावृद्धिरायुषश्च ॥४॥ पय उपसेचन यस्य तदन्नम(४)ग्निष्टोमतुल्यम् । सर्पिषा, उपलिकमिति प्रकरणाद्गम्यते तदुक्थ्यतुल्यम् । मधुनोपसितमन्नमातिरात्रतुल्यम् । मांसेन सह इत्तम द्वादशाहतुल्यम् । उदकेन सह दत्तेन प्रजावद्धिर्भवति । आयुषश्च । उपसमस्तमपि वृद्धिरिति सम्बध्यते ॥४॥ १. भ्राष्ट्राग्नी इति क. च. पु. २. दर्शपूर्णमासेष्टाऋत्विजां दक्षिणात्वेन यद्देयमन तदन्वाहायपचनम् । ३ तडागादि इति इ. पु. तडागखननादि इति घ. पु. अग्निहोत्र तपस्सत्यं वेदाना चानुपालनम् । आतिथ्यं बैश्वदेवं च इष्टमित्यभिधीयते ॥ वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमाराम, पूर्तमित्यभिधीयते ॥ ४, अग्निष्टोमोक्थ्यातिरानाः ज्योतिष्ठोमस्य स्थाविशेषाः ।