महाभारतम्-05-उद्योगपर्व-128

विकिस्रोतः तः
← उद्योगपर्व-127 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-128
वेदव्यासः
उद्योगपर्व-129 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन दुर्योधनंप्रति सगर्हणं पाण्डवेषु तत्कृतापनयानुस्मारणम् ।। 1 ।।
दुर्योधनस्य पाण्डवैरसन्धाने कौरवैर्वन्धनपूर्वकं पाण्डवेभ्यः स्वसमर्पणप्रतिपादकदुश्शासनवचनश्रवणजकोपात् सभातो निर्गमनम् ।। 2 ।।
कृष्णेन धृतराष्ट्रंप्रति कुलस्यार्धे दुर्योधनपरित्यागाविधानम् ।। 3 ।।
तथा सदृष्टान्तप्रदर्शनं दुर्योधनस्य बन्धनपूर्वकं पाण्डवेभ्यः समर्पणविधानम् ।। 4 ।।


वैशंपायन उवाच ।।

5-128-1x

ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ।।

5-128-1a
5-128-1b

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि।
स्थिरो भव सहामात्यो विमर्दो भविता महान् ।।

5-128-2a
5-128-2b

यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः।
पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप ।।

5-128-3a
5-128-3b

श्रियां संतप्यमानेन पाण्डवानां महात्मनाम् ।
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ।।

5-128-4a
5-128-4b

कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।
तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ।।

5-128-5a
5-128-5b

अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् ।
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ।।

5-128-6a
5-128-6b

तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् ।
असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः ।।

5-128-7a
5-128-7b

कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति।
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया ।।

5-128-8a
5-128-8b

कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी ।
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ।।

5-128-9a
5-128-9b

जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि ।
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ।।

5-128-10a
5-128-10b

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।
स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् ।।

5-128-11a
5-128-11b

नृशंसानामनार्याणां तथा परुषभाषणम् ।
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ।।

5-128-12a
5-128-12b

सह मात्रा प्रदग्धुं तान्बालकान्वारणावते ।
आस्थितः परमो यत्नो न समृद्धश्च तत्तव ।।

5-128-13a
5-128-13b

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ।।

5-128-14a
5-128-14b

विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया ।
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ।।

5-128-15a
5-128-15b

एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ।।

5-128-16a
5-128-16b

`एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत्।
स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन ।।

5-128-17a
5-128-17b

यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति ।
तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः ।।

5-128-18a
5-128-18b

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्।
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ।।

5-128-19a
5-128-19b

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च।
शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव ।।

5-128-20a
5-128-20b

शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः ।
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ।।

5-128-21a
5-128-21b

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः।
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ।।

5-128-22a
5-128-22b

वैशंपायन उवाच।

5-128-23x

एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।
दुःशासन इदं वाक्यमब्रवीत्करुसंसदि ।।

5-128-23a
5-128-23b

न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः।
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ।।

5-128-24a
5-128-24b

वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ।।

5-128-25a
5-128-25b

भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ।।

5-128-26a
5-128-26b

विदुरं च सोमदत्तं च महाराजं च बाह्लिकम्।
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ।।

5-128-27a
5-128-27b

सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः।
अशिष्टवदमर्यादो मानी मान्यावमानिता ।।

5-128-28a
5-128-28b

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्।
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ।।

5-128-29a
5-128-29b

सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह।
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ।।

5-128-30a
5-128-30b

धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते ।
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ।।

5-128-31a
5-128-31b

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्।
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ।।

5-128-32a
5-128-32b

कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन ।
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ।।

5-128-33a
5-128-33b

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ।।

5-128-34a
5-128-34b

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।
प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम् ।।

5-128-35a
5-128-35b

तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः ।
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः ।।

5-128-36a
5-128-36b

प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः ।
भवतामानुकूल्येन यदि रोचेत भारताः ।।

5-128-37a
5-128-37b

पुत्रो वै भोजराजस्य दुराचारो ह्यनात्मवान् ।
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः ।।

5-128-38a
5-128-38b

उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः।
ज्ञातीनां हितकामेन मया शस्तो महामृधे ।।

5-128-39a
5-128-39b

आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ।।

5-128-40a
5-128-40b

संसमेकं परित्यज्य कुलार्थे सर्वयादवाः।
संभूय सुखमेधन्ते भारतान्धकवृष्णयः ।।

5-128-41a
5-128-41b

अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः ।
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ।।

5-128-42a
5-128-42b

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।
अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः ।।

5-128-43a
5-128-43b

पराभविष्यन्त्यसुरा दैतेया दानवैः सह ।
आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः ।।

5-128-44a
5-128-44b

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अस्मिन्युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम् ।।

5-128-45a
5-128-45b

` वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति।'
इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ।।

5-128-46a
5-128-46b
5-128-46c

एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः।
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ।।

5-128-47a
5-128-47b

तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ।।

5-128-48a
5-128-48b

तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ।।

5-128-49a
5-128-49b

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।।

5-128-50a
5-128-50b

राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ।।

5-128-51a
5-128-51b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
अष्टाविंशत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-127 पुटाग्रे अल्लिखितम्। उद्योगपर्व-129