पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४६३ यहुस्तरं यदुरापं यदुर्ग यच दुष्करम् । सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ २३८ ॥ यदिति ॥ यदुःखेन तीर्यते ग्रहदोपसूचितापदादि, यदुःखेन प्राप्यते क्षत्रिया- दिना यथा विश्वामित्रेण तेनैव शरीरेण ब्राह्मण्यादि, यहुःखेन गम्यते मेरुपृष्ठादि, यहुःखेन क्रियते गोः प्रचुरदानादि, तत्सर्वं तपसा साधितुं शक्यते । यस्मादति- दुष्करकार्यकरणं सर्व तपसा साध्यते तपो दुर्लङ्घनशक्ति ॥ २३८ ॥ महापातकिनश्चैव शेषाचाकार्यकारिणः। तपसैव सुतप्तेन मुच्यन्ते किल्विपात्ततः॥ २३९ ॥ महेति ॥ ब्रह्महत्यादिमहापातककारिणोऽन्ये उपपातकाद्यकार्यकारिणस्तपसैव उक्तरूपेणानुष्ठितेन तस्मात्पापान्मुच्यन्ते । उक्तस्यापि पुनर्वचनं प्रायश्चित्त- स्तुत्यर्थम् ॥ २३९॥ कीटाचाहिपतङ्गाश्च पशवश्च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोवलात् ।। २४०॥ कीटा इति ॥ कीटसर्पालभपशुपक्षिणः स्थावराणि च वृक्षगुल्मादीनि भूतानि तपोमाहात्म्येन स्वर्ग यान्ति । इतिहासादौ कपोतोपाख्यानादिषु पक्षिणोऽप्यग्नि- प्रवेशादिकं तपस्तपन्तीति श्रूयते । कीटानां यजातिसहजं दुःखं तत्समं तपस्तेन च क्षीणकल्मषा अविकारिणो जन्मान्तरकृतेन सुकृतेन दिवं यान्ति ॥ २४० ॥ यत्किचिदेनः कुर्वन्ति मनोवाङ्मृतिभिर्जनाः। तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ २४१॥ यत्किचिदिति ॥ यत्किंचित्पापं मनोवाग्देहैानवाः कुर्वन्ति तत्सर्वं पापं निर्द- हन्ति तपसैव तपोधना इति । तप एव धनमिव रक्षणीयं येषां ते तपोधनाः२४१ तपसैव विशुद्धस्स ब्राह्मणस दिवौकसः । इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च ॥२४२ ॥ तपसैवेति ॥ प्रायश्चित्ततपसा क्षीणपापस्य ब्राह्मणस्य यागे हवींषि देवाः प्रति- गृह्णन्ति । अभिलषितार्थाश्च प्रयच्छन्ति ॥ २४२ ॥ प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः। तथैव वेदानुषयस्तपसा प्रतिपेदिरे ॥ २४३ ॥ प्रजापतिरिति ॥ हिरण्यगर्भः सकललोकोत्पत्तिस्थितिप्रलयप्रभुः तपःकरणपूर्व- कमेवेमं ग्रन्थमकरोत् । तथैव ऋषयो वसिष्टादयस्तपसैव मन्त्रब्राह्मणात्मकान्वेदा- प्राप्तवन्तः ॥ २४३ ॥ इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते । सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ॥ २४४ ॥