पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ११ इत्येतदिति ॥ सर्वस्यास्य जन्तोर्यदुर्लभं जन्म तपसः प्रकाशादित्येवं देवाः प्रप- इयन्तः तपोमूलमिदं सर्वमित्यादि तपोमाहात्म्यं प्रवदन्ति ॥ २४४ ॥ वेदाभ्यासोऽन्वहं शक्क्या महायज्ञक्रिया क्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥२४५॥ वेदाभ्यास इति ॥ यथाशक्ति प्रत्यहं वेदाध्ययनं पञ्चमहायज्ञानुष्टानमप- राधसहिष्णुत्वमित्येतानि महापातकजनितान्यपि पापानि शीघ्रं नाशयन्ति किमुतान्यानि ॥ २४५॥ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्व दहति वेदवित् ॥ २४६ ।। यथेति ॥ यथाग्निः काष्टान्यासन्नानि क्षणेनैव तेजसा निःशेषं करोति तथा ज्ञानाग्निना पापं सर्व वेदार्थज्ञो ब्राह्मणो नाशयति । इत्येतत्परमार्थज्ञानस्यैतत्पाप- क्षयोत्कर्षापनार्थमेतत् ॥ २४६ ॥ इत्येतदेनसा मुक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्सानां प्रायश्चित्तं निबोधत ॥ २४७॥ इत्येतदिति ॥ इत्येतद्ब्रह्महत्यादीनां पापानां प्रकाशानां प्रायश्चित्तं यथाविध्यभि- हितं । अत ऊर्ध्वमप्रकाशानां पापानां प्रायश्चित्तं शृणुत । अयं श्लोको गोविन्दराजे- नालिखितः । मेधातिथिना तु लिखित एव ॥ २४७ ॥ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥२४८ ॥ सव्याहृतीति ॥ सव्याहृतिसप्रणवाः सावित्रीशिरोयुक्ताः पूरककुम्भकरेचकादि- विधिना प्रत्यहं षोडश प्राणायामाः कृताः मासाद्ब्रह्मनमपि निष्पापं कुर्वन्ति । अपिशब्दादातिदेशिकब्रह्महत्याप्रायश्चित्ताधिकृतमपि। एतच्च प्रायश्चित्तं द्विजाती- नामेव न स्त्रीशूद्वादेर्मत्रानधिकारात् ॥ २४८ ॥ कौत्सं जप्वाप इत्येतद्वासिष्ठं च प्रतीत्यूचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ २४९ ॥ कौत्समिति ॥ कौत्सेन ऋषिणा दृष्टं 'अपनः शोशुचदघम्' इत्येतत्सूक्तं, वसिष्टेन ऋषिणा दृष्टं च 'प्रतिस्तोमेभिरुषसं वसिष्ठाः' इत्येवं ऋचं, माहित्रं 'महित्रीणाम- वोस्तु' इत्येतत्सूक्तं, शुद्धवत्यः 'एतोन्विन्द्रं स्तवाम शुद्धम्' इत्येतास्तिस्र ऋचः, प्रकृतं मासमहरहः षोडशकृत्वोऽपि जपित्वा सुरापोऽपि विशुध्यति । अपिशब्दा- दातिदेशिकसुरापानप्रायश्चित्ताधिकृतोऽपि ॥ २४९ ॥ सकृन्जस्वास्थवामीयं शिवसंकल्पमेव च । अपहृत्य सुवर्ण तु क्षणाद्भवति निर्मलः ॥ २५० ॥