पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ मनुस्मृतिः। [अध्यायः ११ मनोवाक्कायैः शुभमेव सर्वं कर्म कुर्यात् इष्टफलत्वात् । नाशुभं नरकादिदुःख- हेतुत्वात् ॥ २३ ॥ अज्ञानाद्यदि का ज्ञानात्कृत्वा कर्म विगर्हितम् । तसाद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥ २३२ ॥ अज्ञानादिति ॥ प्रमादादिच्छातो वा निषिद्धं कर्म कृत्वा तस्मात्पापान्मुक्तिमि- च्छन्पुनस्तन्न कुर्यात् । एतच्च पुनः करणे प्रायश्चित्तगौरवार्थम् । अतएव देवल:- 'विधेः प्राथमिकादसावितीये द्विगुणं भवेत्' इति ॥ २३२ ॥ यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् । तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत ॥ २३३ ॥ यस्मिन्निति ॥ अस्य पापकारिणो यस्मिन्प्रायश्चित्ताख्ये कर्मण्यनुष्टिते न चित्तस्य संतोषः स्यात्तस्मिंस्तदेव प्रायश्चित्तं तावदावर्तयेद्यावन्मनसः संतोषः प्रसादः स्यात् ॥ २३३॥ तपोमूलमिदं सर्व दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ २३४ ॥ तप इति ॥ यदेतत्सर्वं देवानां मनुष्याणां च सुखं तस्य तपः कारणम् । तप- लैव च तस्य स्थितिः । तपोऽन्तः प्रतिनियतविधिरेव देवादिसुखस्य तपसा जन- नादादिष्टं वेदार्थैरुक्तम् । उक्तप्राजापत्यादिप्रायश्चित्तात्मकं तपः । प्रसङ्गेन चेदं वक्ष्यमाणं च सर्वतपोमाहात्म्यकथनम् ॥ २३४ ॥ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ २३५ ।। ब्राह्मणस्येति ॥ ब्राह्मणस्य ब्रह्मचर्यात्मकवेदान्तावबोधनं तपः, रक्षणं तपः, वैश्यस्य कृषिवाणिज्यपाशुपाल्यादिकं तपः, शूद्रस्य ब्राह्मणपरिचर्या तप इति वर्णविशेषेणोत्कर्षबोधनार्थम् ॥ २३५ ॥ ऋषयः संयतात्मानः फलमूलानिलाशनाः । तपसैव अपश्यन्ति त्रैलोक्यं सचराचरम् ॥ २३६ ॥ ऋषय इति ॥ ऋषयो वाङ्मनःकायनियमोपेताः फलमूलवायुभक्षास्तपसैव जङ्गमस्थावरसहितं पृथिव्यन्तरिक्षस्वर्गात्मकं लोकत्रयमेकदेशस्थाः सन्तो निष्पा- पान्तःकरणाः प्रकर्षेण पश्यन्ति ॥ २३६ ॥ औषधान्यगदो विद्या देवी च विविधा स्थितिः। तपसैव प्रसिद्ध्यन्ति तपस्तेषां हि साधनम् ॥ २३७ ॥ औषधानीति ॥ औषधानि व्याध्युपशमनहेतुकानि । अगदो गदाभावः । नैरुज्यमिति यावत् । विद्या ब्रह्मधर्मचर्यात्मकवेदार्थज्ञानं वेदसंबन्धिनी च नानारूपा स्वर्गादाववस्थितिरित्येतानि तपसैव प्राप्यन्ते यस्मात्तप एषां प्राप्ति- निमित्तम् ॥ २३७ ॥ राजन्यस्य