कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०७

विकिस्रोतः तः
← पटलः ०६ द्राह्यायणश्रौतसूत्रम्
पटलः ०७
द्राह्यायणः
पटलः ०८ →

तृतीयः प्रपाठकः
7.1 सप्तमः पटलः । प्रथमः खण्डः

षोडशि साम्ना स्तोष्यमाणो यथासनमुपविश्य हविर्धानं गत्वा षोडशिग्रहमवेक्षेतोद्गाता यस्मादन्य इति १ एवमेव प्रातःसवने २ यदि चोत्तरयोरपि गृह्णीयुः ३ अश्वः कृष्णः पूर्वस्याᳪ सदसो द्वारि प्रत्यङ्मुखस्तिष्ठेदिति शाण्डिल्यः ४ अपरस्यां प्राङ्मुख इति धानञ्जय्यः ५ कृष्णाभावे श्यावः ६ तदभावे यः कश्चाश्वः ७ गौर्वाजोऽश्वाभावे ८ यो यः सामाङ्गं ब्रूयात्स हिरण्यं धारयेत् ६ उद्गाता निधनमुपयत्सु १० सर्वे वाभिमृशेयुः ११ अवसर्पति प्रथमं पर्यायं गायेच्छन्नम् १२ विषिते द्वितीयं मध्यमेन १३ अस्तमिते तृतीयमाविः १४ यदोपाकुर्युः स्तुवीरन्नेवाहनि छन्नᳪ रात्रावाविः १५ उद्गात्रे दद्यादश्वहिरण्ये दक्षिणावत्सु १६ सत्र एव ग्रहस्य भक्षयेयुरैन्द्रᳪ सह इति १७ उदस्य हरिवदहरिकासु चेत्स्तुवीरन १८ अनुष्टुप्छन्दसा चमसस्य १९ पूर्वेण वा २० तथा कुर्वन्निन्द्रश्च सम्राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतं तयोरहमनुभक्षं भक्षयामि वाग्जुषाणा सोमस्य तृप्यत्विति ग्रहस्य २१ इन्द्रमिद्धरी इति शाण्डिल्यो वाग्देवी सोमस्य पिबत्वित्येतदधिकया २२ ऐन्द्रᳪसह इति चमसस्यासत्रे २३ त्रिष्टुप्छन्दसा वाजपेयसाम्नि भक्षयेदिति गौतमः २४ अनुष्टुप्छन्दसेति धानंजय्यशाण्डिल्यौ २५ अनुष्टछन्दसा रात्रौ २६ पृथक्तृचेभ्यः सन्धौ हिंकुर्युः २७ इष्टयजुष इति भक्षः २८ गायत्रच्छन्दसातिरिक्तस्तोत्रेष्विति गौतमः २६ पृथग्भक्षछन्दोभिरनुपूर्वमिति धानंजय्यशाण्डिल्यौ ३० अनुष्टुप्छन्दसा वा ३१ अच्छन्दसा वा ३२ संधिवद्वा ३३
इति द्राह्यायणश्रौतसूत्रे सप्तमे पटले प्रथमः खण्डः १

7.2 द्वितीयः खण्डः
आहिताग्निरसोमयाजी परᳪ सोमेन याजयित्वा परिभक्षं कुर्वीत १ सोमयाज्यपीति शाण्डिल्यः २ हुतॊयां प्रातराहुतावाज्यं गार्हपत्येऽधिश्रित्योदगुद्वासयेत् ३ कंसे चमसे वा द्रप्सानवधाय दक्षिणाग्नावुपसादयेत् ४ स्फ्यदर्भमुष्टी च ५ पश्चिमेन गार्हपत्यं गत्वा पश्चादाहवनीयस्योपविश्य स्रुवेण स्रुच्याज्यं गृह्णीयात् । यावद्गृहीती स्यात् ६ तज्जुहुयादिमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् । आपिः पिता प्रमतिः सोम्यानां भूमिरस्यृषिकृन्मर्त्यानाᳪ स्वाहेति ७ एवमेव गृहीत्वापां पुष्पमस्योषधीनाᳪरसोऽग्नेः प्रियतमा तनूरिन्द्रस्य प्रियतमᳪहविः स्वाहेति ८ आज्यस्य पूर्वान् ग्रहान् गृहीत्वा दध्न उत्तमं विश्वेभ्यो देवेभ्यः स्वाहेति ९ दधिशेषं स्रुच्यानीयोदङ्ङावृत्य प्राश्नीयात्तव सोमव्रते वयं मनस्तनूषु पिप्रतः प्रजावन्तो अशीमहीति १० प्रक्षाल्य स्रुचं यथेतं प्रत्याव्रज्य प्राचीनावीती भूत्वाप उपस्पृश्य दक्षिणाग्नेः स्थण्डिलᳪ समूह्याद्भिः संप्रोक्ष्य स्फ्येन सकृदुल्लिख्योल्मुकमुपनिधाय दर्भानुपस्तीर्याप उपनिनीयामीषां द्रप्सानां निपृणुयादवमेभ्यः पितृभ्यः स्वधा सहभक्षेभ्य इति प्रथमम् ११ और्वेभ्यः काव्येभ्य इत्येवमेव दक्षिणा पृथक् १२ अत्र पितरो मादयध्वं यथाभागमावृषायध्वमित्युक्त्वोदङ्ङावृत्यासित्वा यावन्मन्येत तावत् १३ अभिपर्यावर्तमानो जपेदमीमदन्त पितरो यथाभागमनन्तरिताः पितरः सोमपीथादिति १४ तान्दर्भान्द्रप्सांश्च दक्षिणाग्नौ प्रहरेत् १५
इति द्राह्यायणश्रौतसूत्रे सप्तमे पटले द्वितीयः खण्डः २

7.3 तृतीयः खण्डः
यज्ञोपवीती भूत्वाप उपस्पृश्य गृहान् व्रजञ्जपेत् । उपशिवेन मनसा गृहानैमि मानुषान् । गृहामा विभीत मा वेपिद्वमूर्जं विभ्रत एवमस्यूर्जं बिभ्रद्वः । सुमनाः सुमेघा गृहानैमि मनसा दैवेन । येषामध्येति प्रवसन्येषु सौमनसो बहुर्गृहानुपह्वयामहे । ते नो जानन्तु जानत उपहूता इह गावः । उपहूता अजावयोऽथो अन्नस्य यो रस उपहूतो गृहेषु नः इति १ पश्चाच्छालामग्नेरुपविश्य जपेदिह गावः प्रजायध्वमिहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽपि पृषा निषीदत्विति २ अग्नेस्तृणानि प्रत्यूह्य यः सुहृत्तमभि भाषेत ३ गोषु गा अपि सृजेत् । उपेदमुपपर्चनमासु गोषूपपृच्यतामुपर्षभस्य रेतस्युपेन्द्र तव वीर्य इति ४ मेमा इन्द्रगावो ऋषन्मो आसां गोपति ऋषन्मा साम मित्रयुर्जन इन्द्रमा स्तेन ईशत इति ५ सत्राय दीक्षिष्यमाणाः संवदेरन् सह नः साधुकृत्या नानापापकृत्या यदस्मिन्त्सत्रेऽथ यत्पुरा चकृम कर्तास्मश्च यथोपस्थितमेव नस्तदिति ६ यो नोऽव्रत्यं चरेद्दीक्षितो नः स दीक्षितान् याजयेत् ७ संवत्सरं ह स्म पूर्वेऽन्योन्यस्य क्रोधमाक्रोशं निभृतं शीलमिति संविज्ञाय दीक्षन्ते ८ तेषां दीक्षाप्रभृति पतीशालायां भोजनसंवेशने स्याताम् ६ उपवसथ्यप्रभृत्याग्नीध्रीये १० सन्धिवेलयोर्वाचं यच्छेयुः ११ विचक्षणान्तां वाचं भाषेरन् १२ न कंचनाभिवादयेरन् १३ न शूद्रेण संभाषेरन् १४ नाधिष्ण्य उत्तपेरन् १५ न प्रतीच्या द्वारा पतीशालाया निष्क्रामेयुः १६ प्राञ्चमुदञ्चं वोच्चारं कुर्वीरन् १७ न बहु वदेयुः १८ न दन्तान् दर्शयेरन् १६ नोच्चैर्जक्षुः २० नाहुतस्याश्नीयुः २१ नैनानन्योन्यानश्नतः पश्येत् २२ सर्वेषां सवनानां प्राश्नीयुः २३ क्रोधानृते वर्जयेयुः २४ एतानि व्रतानि दीक्षासु २५ दीक्षोपसत्सु वा २६ वा सत्रान्तात् २७ उदयास्तमयावभ्याश्रावणं च बहिर्वेदि प्रसृते वर्जयेयुः २८
इति द्राह्यायणश्रौतसूत्रे सप्तमे पटले तृतीयः खण्डः ३

7.4 चतुर्थः खण्डः
तेषाः चेदेनाᳪस्त्रयाणां किंचिदेयाद् गृहपतावुपहवमिच्छेरन् १ तं चेदुद्गातरि २ एष वै यजमानस्य प्रजापतिर्यदुद्गातेति ह्याह ३ दीक्षानुपूर्व्येण वा सर्वेषु ४ परिहृतासु वसतीवरीषु संविशेयुः ५ तेषां चेत् कश्चित् प्रेयादतीर्थेन निर्हृत्याहार्येणानाहिताग्निं दहेयुः । पत्नीं चैवम् ६ अरण्योरग्नीन्समारोप्यते आप्नानेन निर्हृत्य निर्मन्थ्येनाहिताग्निम् ७ मध्यमस्य रात्रिपर्य्यायस्य दैवोदासᳪ होतृषाम स्यादौर्ध्वसद्मनं वा ८ अभिप्लवस्य द्वितीयेऽहनि भर्गो यश इति प्राग्विषुवतो व्यत्यासᳪ स्यातामिति गौतमः ६ ऊर्ध्वं च त्रिष्वभिप्लवेषु १० यशो भर्ग इति परेषु ११ सकृद्द्विर्वा यशः पुरस्तात्तथोपरिष्टाद्भर्ग इतरेष्वपरम् १२ भर्गः पूर्वस्मिन् पक्षसि यश उत्तरस्मिन्नित्यपरम् १३ एताभ्यामुक्ते वीङ्कशुद्धाशुद्धीये १४ विषुवत ऊर्ध्वं वीङ्कमेव स्यादिति धानंजय्यः १५ पञ्चमेऽहनि यदहर्ग्रामेगेयᳪ सन्तनि स्यान्मानवात्पूर्वं वाम्रᳪ स्यात् १६ इषोवृधीयसमन्ते पृष्ठ्यानन्तर्ये षष्ठे १७ पूर्वस्मिन् पक्षसि त्रिषु चतुर्थोऽभिप्लवो लुप्येत १८ एत एवावृत्ता ऊर्ध्वं विषुवतोऽभिप्लवाः १६ तेषां प्रतिलोममहान्युपेयुः २० पृष्ठ्यस्वरसाम्नां च २१ दशरात्रसमीपे त्रिषु चतुर्णामावृत्तानां प्रथमो लुप्येतेति धानांजय्यः २२ उत्तम इषोवृधीयसमन्ते स्यातामिति २३ विपरीतमेतच्छाण्डिल्यायनस्य २४ विषुवत्समीपे च त्रिषु २५ अभाव इषोवृधीयसमन्तयोः २६ भावस्त्वाचार्याणां भावस्त्वाचार्याणाम् २७
इति द्राह्यायणश्रौतसूत्रे सप्तमे पटले चतुर्थः खण्डः ४