कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०६

विकिस्रोतः तः
← पटलः ०५ द्राह्यायणश्रौतसूत्रम्
पटलः ०६
द्राह्यायणः
पटलः ०७ →

6.1 षष्ठः पटलः । प्रथमः खण्डः
पूर्वं नाराशंसं भक्षयित्वाहवनीये प्रस्तोता पृष्ठहोमं जुहुयात् । यत्पृष्ठं स्यात्तदादिश्यादः पिबतु सोम्यं मध्वायर्दधद्यज्ञपतावविहृतमिमं यज्ञमभिसंवसाना होत्रास्तृप्यन्तु सुमनस्यमानाः स्वाहेति पूर्वाम् १ स्वाहाकारेणोत्तराम् २ द्वैधं जुहुयादिति धानंजय्यः ३ अदः पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविहृतं स्वाहेति पूर्वाम् ४ इमं यज्ञमित्युत्तरां होतृकपृष्ठेभ्य इति ५ रेवतीषु वारवन्तीयमिति षष्ठे पृष्ठादेशं गौतमः ६ महाव्रतमिति व्रते ७ रेवत्यश्च वारवन्तीयं चेति धानंजय्यः ८ यावन्ति पृष्ठस्थानानि स्युः सर्वाण्येव प्रसंचक्षीत ९ पिबतु दधदिति च यथार्थमूहेत् १० बृहता रथन्तरेण वा स्तोष्यमाणः प्राक्स्तोमयोगाद्दश व्याहृतीर्मनसा ध्यायेदैरमिति ११ रथन्तर एवर्चं यस्ते गोष्विति १२ युक्त्वा स्तोममेतद् ब्रूयादिति शाण्डिल्य ऋचं पूर्वं व्याहृतिभ्य इति १३ इतरद्धानंजय्यः १४ रथन्तरे प्रस्तूयमाने सर्वत्र सम्मीलेत् १५ एकैकं मनसाक्षरᳪ स्तोभैर्वाचा युगपत् संयुज्याद् भकारादिभिरकारान्तैरक्रान्तैः प्रथमस्वरैरकारैरुत्तमो द्वितीयः स्वरः प्राक् प्रतिहाराच्चतुरक्षरᳪ शिष्ट्वा १६ तत्सर्वत्र प्रतिवीक्षेत १७ स्तुत्वा वरं चोदयेत् १८ तस्यापृष्ठस्य सतो निवर्तेरन्धर्माः सह स्तोभैरिति गौतमः १६ स्तोभा एवान्वीयुरिति धानंजय्यः २० अग्रिष्टोमसामसंधिषाम्णोरेवापृष्ठᳪ स्तोभेदिति शाण्डिल्यः २१ सर्वत्रास्वस्तोत्रीयं न स्तोभेदिति स्थविरो गौतमः २२
इति द्राह्यायणश्रौतसूत्रे षष्ठे पटले प्रथमः खण्डः १

6.2 द्वितीयः खण्डः
वामदेव्येन स्तोष्यमाणः प्राक्स्तोमयोगाद् गावो अश्वाजावयो व्रीहयो यवा इति मनसा ध्यायेत् १ ब्रह्मसाम्नि यः कामो यजमानस्य स्यात् स सिध्यत्विति ध्यायन्नुपासीत २ तथेतर उद्गायन ३ आर्भवेण स्तुत्वा पुरोडाशादेकैकं पिण्डं त्रीᳪत्रीन्वा परया द्वारा हविर्धानं प्रपद्याधस्तात् स्वस्य चमसस्य कुर्युर्यदा सन्नः स्यादत्र पितरो मादयध्वं यथा भागमावृषायध्वमिति ४ तामाह्रियमाणं प्रतिमन्त्रयेरन्नमीमदन्त पितरो यथाभागमावृषायिषत इति ५ सोम्यमाहृतमुद्गातावेक्षेतायुर्मे प्राण इति ६ पुनरस्मासु दध्मसीत्यन्तः ७ तं दशमेऽहन्यभ्यस्येत् ८ यन्मे मादे स्थाने यन्मे यममित्येके ९ पूर्वेण त्वेवावेक्षेत १० तस्मिन्नङ्गुली अवधायाङ्गुष्ठानामिके इत्येकेऽक्षिणी विमृजीत येनाह्याजिमिति ११ एवमितरौ कुर्याताम् । प्रतिहर्ता पश्चात् १२ तमुत्तरेण प्रतिहर्तारं हरेयुः १३ द्रव्येप्सुर्भुञ्जीतैनं गच्छत्यन्यतरां रोगार्तो वाहतेन वाससा प्रच्छाद्य दक्षिणार्द्धं सदसो गत्वा १४ यज्ञायज्ञीयस्य हिंकारं प्रति पत्नीमुद्गातेक्षेत १५ निधनं प्रति पत्नी दक्षिणमूरुमभिषिञ्चेत् १६ तृतीयायाᳪ स्तोत्रीयायां प्रस्तुतायां सर्वं तदुदकं निनयेत् १७ उत्तमायां स्तोत्रीयायां भुवद्वाजायि भुवद्वाजेष्वित्यभ्यन्नामिति च निधनमनुष्टुभमुत्तमामक्षरेणान्त इति ह्याहेति १८ अनभ्यासं त्वाचार्य्याः १९ निधनं च यथाम्नायं शाण्डिल्यः २० तद्यदानुशᳪसन् होतापोहिष्ठीयां ब्रूयात्तदैनमन्वालभेरन्नपावृण्वानाः २१ अन्यस्थानगतस्य सतो निवर्तेरन् धर्माः २२
इति द्राह्यायणश्रौतसूत्रे षष्ठे पटले द्वितीयः खण्डः

6.3 तृतीयः खण्डः
यदन्यदग्निष्टोमसाम स्यात्तस्य स्युः १ अहिंकारेऽपि प्रतिहारवेलायां पत्नीमुद्रातावेक्षेत २ अनुब्राह्मणमार्चिकान् सन्नामान्त्सर्वत्र कुर्युरप्यन्यस्मिन्त्साम्नि ३ तृतीयसवने सर्वेषु स्तोत्रेषु समाप्तेषु भक्षयित्वा स्तोमं विमुञ्चेयुर्ऋतस्य त्वेति ४ दक्षिणैः पाणिभिः कुशाः संलोभयेयुः ५ प्रतियोजनमेके यजमानवचनादनन्तरम् ६ अत्र वा ७ यजमानं वाचयेत्तन्तवे मा ज्योतिषेति ८ असावनु मा तनुहि ज्योतिषेति यथाज्येष्ठं पुत्रान् ६ जनिष्यमाणा इत्यजातेषु १० जातेष्वजातेषु च पुत्रा इत्येव सत्रेषु ११ वषट्कृते हारियोजनस्य यथैतमपरया द्वारा निष्क्रामन्तो जपेयुः सोमेहानु मेहिहीति(तां.ब्रा. १.६.६) १२ सुभूरसी (तांब्रा १.६.७)त्यादित्यमुपतिष्ठेरन् १३ अस्तमितश्चेद्गार्हपत्यं चन्द्रमसं नक्षत्राणि वा १४ आग्नीध्रीये द्वे आहुती जुहयुरपां पुष्पमसीति पूर्वां स्वाहाकारेणोत्तराम् १५ हारियोजन्यो नाम धाना द्रोणकलशे भवन्ति । तासामुद्गाता प्रथम आददानः समुपहूता भक्षयिष्याम इति ब्रूयात् १६ तथेतरौ १७ उन्नेतर्युपहवमिष्ट्वा हारियोजनस्य त इति तिरोह्य्१स्येत्यति रात्रे सर्वत्र वा यथाधीतं द्विरुपघ्राय पश्चादाहवनीयस्यान्तः परिधि निवपेयुः १८ अनप्रहृतेषु भस्मान्ते १६ अप उपस्पृश्याष्टावष्टौ शकलान्याहवनीये ऽनुप्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकारान्तैः २० सकृदेव सर्वाण्युत्तमेनेति शौचिवृक्षिः २१ अप्सुषोमा नाम चमसाश्चात्वालदेशेऽद्भिः पूर्णाः २२ तेषु हरितानि तृणानि प्रास्तानि भवन्ति २३ ते स्वं सवं चमसं पर्युपविश्याप्सु धौतेस्येत्यवमृश्य जपेयुः २४ मधुमन्नमिति पाणीनुपजिघ्रेरन् २५ शमद्भ्यः इत्युदञ्चं चमसं निनयेयुः २६ कामेत्यभ्यात्ममावर्तयेयुः २७ ऊर्गित्युरःसु पाणीन्निदधीरन् २८ प्राणसोमेति मुख्यान् प्राणानभिमृशेरन् २९ आग्नीध्रीयं गत्वा दधिभक्षं भक्षयेयुरसमुपहूय दधिक्राव्णः इति ३०
इति द्राह्यायणश्रौतसूत्रे षष्ठे पटले तृतीयः खण्डः ३

6.4 चतुर्थः खण्डः
अग्निष्टपतीत्यवभृथसाम १ तस्यावृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः २ सर्व ऋत्विजो निधनमुपेयुः ३ इष्टाहोत्रीयमभिषेचनीये समस्येति वा ४ अश्वत्रिरात्रे नानावभृथानि सामानि ५ तेषां प्रथमस्य सनादग्र इत्यवभृथसाम ६ यद्वा उ विश्पतिरिति द्वितीयस्य त्यग्नायिरिति वा ७ अवभृथेष्टौ सᳪस्थितायामवभृथनिचुम्पुण निचेरुरसि निचुम्पृणावदेवैदेवकृतमेनोऽयासिषमवमर्त्यैर्मर्त्यकृतं पुरु राव्णो देवरिषस्याहीत्यप उपस्पृश्य त्रिरभ्युक्षेरन् ८ आदित्यमुपतिष्ठेरन्नुद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरᳪ स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ९ अस्तमितश्चेदाहवनीयम् १० तस्मिन्त्समिध आदध्युरेधोऽस्येधिषीमहीति प्रथमाम् । समिदसि समेधिषीमहीति द्वितीयाम् यदेनश्चकृमा वयं यद्वान्यकृतमारिमानया समिधा वयᳪतदपमृज्महे इति तृतीयाम् ११ तमेवोपतिष्ठेरन्नपो अद्यान्वचारिᳪरसेन समसृक्ष्महि पयस्वानग्न आगमं तं मा सᳪसृज वर्चसेति १२ प्रागुदयनीयादतिरावादप्सुषोमान्तमहः सत्रेषु १३ दधिभक्षान्तमहीनेषु १४ यावन्त्यहानि राजानं भक्षयेयुस्तावत्स्वब्राह्मणायोच्छिष्टं न दद्युः १५ अद्भिर्वा प्रोक्ष्य दद्युः १६ तदेष श्लोकः सोममेतत्पिबत यत्किञ्चाश्नीत ब्राह्मणाः । मा ब्राह्मणायोच्छिष्टं दत्त मा पात्सोममसोमपः इति १७ एतं परिक्रमᳪसर्वक्रतुषु विद्यात् १८ एष ज्योतिः १६ कामाः सर्वे कामाः २०
इति द्राह्यायणश्रौतसूत्रे षष्ठे पटले चतुर्थः खण्डः १२

इति द्राह्यायणश्रौतसूत्रे द्वितीयः प्रपाठकः समाप्तः २