कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः ०८

विकिस्रोतः तः
← पटलः ०७ द्राह्यायणश्रौतसूत्रम्
पटलः ०८
द्राह्यायणः
पटलः ०९ →

8.1 अष्टमः पटलः प्रथमः खण्डः
अथातो गवामयनविकल्पाः १ सर्वम ज्योतिष्टोमेनैके २ अतिरात्रचतुर्विशनवाहवतातिरात्रा वा यथास्थानᳪस्युः । शेषो ज्योतिष्टोमेन ३ अत्र वा गो आयुषी दशरात्रमित्युपाहरेत् स संवत्सरप्रबर्हः शङ्खाहुतमिति च ४ नानाहोभिर्वयं कल्पयामो यथैतद्ब्राह्मणम् ५ अतिरात्रमुभयसामानं कुर्वन्नान्धीगवादुत्तरे औदलबृहती ६ षोडशिमाᳪश्चेदौदलस्थाने नानदम् ७ पूर्वो बृहतः सामतृचः ८ चतुर्विंशमरथन्तरमेके ९ रथन्तरपृष्ठं वा बृहदनुष्टुप्कम् १० अग्निष्टोमसंस्थं चेत्त्रिंशान्याज्यानि षट्त्रिᳪशानि पृष्ठानि ११ षट्त्रिंशानि वा होतृकसामानि १२ पृष्ठानां वाष्टाचत्वारिंशानि १३ सर्वाणि वा त्रिंशानि स्तोत्राणि १४ व्यत्यासं वा त्रिणवत्रयस्त्रिंशौ १५ एतदन्तरुक्थ्यम् १६ अभिप्लवᳪस्वरसाम्नश्च ज्योतिष्टोमे तन्त्रे एके कल्पयन्ति १७ तथा सताᳪशाट्यायनिनः षडहविभक्तीरनुकल्पयन्ति १८ द्विविधमभिप्लवमेके १९ उपवत्यग्रियवती च व्यत्यासं प्रतिपदौ राथन्तरबार्हतानि चाज्यानि २० आज्यप्रतिपदौ वा २१ औशनकावे अन्त्ये २२ पार्थयामे वा बार्हतानाम् २३ स्वयोन्यभीवर्तो रथन्तरपृष्ठेषु २४ श्यैतर्क्षु बृहत्पृष्ठेषु २५ व्यूढं पृष्ठ्यमेके २६ तस्य समूढात्प्रथमस्याह्नो बहिष्पवमानम् २७ समूढमेके रथन्तरबृहत्पृष्ठम् २८ नानापृष्ठे चोत्तरे चतुरहे रथन्तरबृहती व्यत्यासं पवमानेषु २९ बृहतीषु रथन्तरमनुष्टुप्सु बृहत् ३० ते द्वितीये ३१ बृहदुत्तमᳪसमूढे ३२ आष्कारणिधनात्पूर्वं कौल्मलबर्हिषम् ३३ आन्धीगवाच्छ्यावाश्वम् ३४ उपोत्तमं समूढे ३५
इति द्राह्यायणश्रौतसूत्रे अष्टमे पटले प्रथमः खण्डः १

8.2 द्वितीयः खण्डः
आनूपोपक्रमा बृहती पञ्चमे १ मानवात्पूर्वं हारायणम् २ मधुश्चुन्निधनादाकूपारम् ३ उपोत्तमं समूढे ४ बृहतः पूर्वे त्रय एकर्चाः ५ रथन्तरादुत्तरे ६ षष्ठे च बृहतो व्यूढे ७ नित्यौ च शशकर्णौ तृतीये ८ पृष्ठ्येऽभीवर्तकालेये बृहतीष्वनुकल्पयेदिति गौतमः ९ नेति धानंजय्यः १० व्यूहन्नानुकल्पयेदिति शाण्डिल्यायनः ११ एकविंशत्यहकारिण उपरिष्टादभिजितः पृष्ठ्यमुपयन्ति प्राक् च विश्वजितः स्वरसाम्नश्चोक्थ्यान् १२ अभिजिद्विश्वजितौ व्यतिहरन्त्येके १३ अभिजिद्विश्वजितौ व्यतिहरन्त्येके १३ अभिजितो रथन्तरपृष्ठस्य राथन्तरी प्रतिपद्धोतुराज्यं च १४ अभिवायुमित्यौशनम् १५ ज्योतिष्टोमं परम् १६ सुज्ञानमुष्णिहि १७ श्यावाश्वात् पूर्वे गौरीवितबृहती १८ स्वयोनिनी रथन्तरबृहती स्वरसामस्वेके १६ स्वरपृष्ठाश्चेत्स्वारसामिकेषु पृष्ठस्तोत्रीयेषु यथास्वम् २० स्वाराणि चार्भवान्त्यानि २१ द्वैगतगौतमयोः स्थाने रथन्तरम् २२ अन्तरिक्षस्य गौतमम् २३ स्वरस्य बृहद्द्वितीये २४ नित्यश्च सामतृचः २५ औदलत्वाष्ट्रीसाम्नोरुद्धारः २६ विषुवतो दिवैके प्रातरनुवाकमुपाकुर्वन्ति २७ बहिरस्यैके बहिष्पवमानेन स्तुवते २८ अग्निरिन्द्रायोपास्मै पवस्व वाच इति स्तोत्रीयं शुङ्गाः २९ वात आवात्विति माषशरावयः ३० यज्ञायज्ञीयभासे व्यतिहरन्त्येके ३१ बण्महां असि सूर्य इन्द्रमिद्देवतातये श्रायन्त इव सूर्यमिति महादिवाकीर्त्यस्य स्तोत्रीया विकल्पन्ते ३२
इति द्राह्यायणश्रौतसूत्रे अष्टमे पटले द्वितीयः खण्डः २

8.3 तृतीयः खण्डः
बृहत्पृष्ठश्चेदग्रियवती प्रतिपत् १ तृतीयात् साहस्रादाज्यानि नित्यैर्विकल्पन्ते २ उत्सेधस्थाने रथन्तरम् ३ तस्य महादिवाकीर्त्यम् ४ अयं सोमः इति पार्थम् ५ आभिजातानि पृष्ठानि ६ इन्द्रक़तौ श्यैतम् ७ गोः ककुबुष्णिहौ ८ उद्धरति पिपीलिकमध्यम् ६ श्यावाश्वविकर्णगौरीवितान्धीगवौदलभासान्यनुष्टुभि १० औदलस्थाने वा वाङ्निधनं क्रौञ्चम् ११ अरण्येगेये तृचयोः १२ व्रतात्परे १३ विश्वजिति यज्ञायज्ञीयबृहती व्यतिहरन्त्येके १४ बृहत्पृष्ठश्चेत्तृतीयात् साहस्रात् प्रातःसवनं १५ कालेयस्थाने समन्तम् १६ अयं सोम इति पार्थम् १७ आभिजितानि पृष्ठानि १८ इन्द्रक्रतौ श्यैतम् १९ गोः ककुबुष्णिहौ २० उद्धरति पिपीलिकमध्याम् २१ अनुष्टुप्प्रभृति व्रतात् २२ उत्तरे पक्षस्ययनविकल्पाः २३ अभिप्लवपृष्ठ्यान् प्रतिलोमानुपयन्त्यहरावृत्तकारिणः २४ पृष्ठ्याभिप्लवाननुलोमान् मासावृत्तकारिणः २५ गो आयुषी च व्यतिहरन्ति २६ उत्तमं संभार्यं कुर्वन् सप्तमान्मासान् पृष्ठ्याभिप्लवानुद्धरेत् २७ पञ्चायनमासान् कृत्वा दशरात्रमिश्रादभिप्लवमुद्धरेत् २८ तथा सति पूर्वे पक्षसि विकल्पः २९ षष्ठादभिप्लवपृष्ठ्यानुद्धृत्य चतुर्विंशाद् द्वितीयादह्नः उत्तरान् कुर्यात् ३० समौ पक्षौ चिकीर्षन् पञ्चायनमासान् कृत्वा दशरात्रमिश्रं मासमुद्धरेत् ३१ पञ्चदशौ पक्षौ व्रतस्यापरिमात्कम ३२ बृहत्पृष्ठं विश्वजितम् ३३ विश्वजित आयुषमेक उपयन्ति ३४ तथा सति गो आयुषोरेकाहिके बृहत्यौ ३५ दशरात्रमेक आवर्तयन्ति ३६ तस्माद्व्रतं यदा परं व्रतान्ते मानसं सांवर्गजिता गोतमाः ३७
इति द्राह्यायणश्रौतसूत्रे अष्टमे पटले तृतीयः खण्डः ३

8.4 चतुर्थः खण्डः
ज्योतिषामयनविकल्पाः १ तत्र यदादितोऽन्ततस्तदूर्ध्वं विषुवतः २ मासि मास्याद्यस्याभिप्लवस्य स्थाने त्रिकद्रुकाः स षट्त्रिंशदूनो नाक्षत्रः ३ सप्तविंशिनो हि मासाः ४ षष्ठाद्यस्याभिप्लवस्य स्थाने ज्योतिर्गौश्च ज्योतिरेवावृत्ते स नवोनो नाक्षत्र एव त्रयोदशी ५ युग्ममासेष्वाद्यस्याभिप्लवस्य स्थाने तत्पञ्चाहः स षडूनश्चान्द्रमसः ६ षष्ठादौ त्रिकद्रुकानभिप्लवं चोपदध्यात् सोऽष्टादशाधिकः पौर्णमासी प्रसवस्तैर्यगयनिक आदित्यस्य ७ उत्सर्जनानि मासि मासि ८ यथान्त एवमावृत्तानामादिः ६ पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वाग्निष्टोममुत्तमे १० तद्वैकत्रिकस्तोमम् ११ असृक्षतेति बहिष्पवमानम् १२ गायत्रं गायत्र्यामाश्वमैडं बृहत्यां गोष्ठो वा १३ अया रुचेति गायत्रपार्श्वमार्भवः १४ सवनविधं पशुं कुर्वनुत्तममभिप्लवपञ्चाहं कृत्वा षष्ठस्थाने सवनविधः पशुः १५ प्रथमं वाभिप्लवपञ्चाहं कृत्वा मासान्ते सवनविधः पशुः १६ सर्वानूनानेके १७ प्रथमं वाभिप्लवपञ्चाहं कुर्युः १८ अहनी वा समस्येयुरभिप्लवपृष्ठ्ययोः सांनिपातिके १६ अभिप्लवयोरुत्तमे २० तथा सत्येकादश्यां पूर्वपक्षस्य दीक्षित्वा त्रयोदश दीक्षाः कुर्वीरन् २१ सप्तदश वा २२ व्यत्यासं वा पूर्णो नान् २३ ऊनपूर्णानावृत्ताञ्छालंकायनिनः २४ एकाष्टकादीक्षिण उपसर्गिणः २५ ते तूष्णीमेवत्रिᳪशमहरासीरन् २६ सवनविधेन वा पशुना यजेरन् २७ अध्वर्युबह्वृचैः समयं कृत्वा दीक्षेरन्नेवमविलोपो भवतीति भवतीति २८
इति द्राह्यायणश्रौतसूत्रे अष्टमे पटले चतुर्थः खण्डः