पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। चिकित्सकानामिति ॥ सर्वेषां कायशल्यादिभिपजां दुश्चिकित्सां कुर्वतां दण्डः कर्तव्यः । तत्र गवाश्वादिविषये दुश्चिकित्सायां प्रथमसाहसदण्डो मानुपविषये पुनर्मध्यमसाहसः ॥ २८४ ॥ संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः। प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च ।। २८५ ॥ संक्रमेति ॥ संक्रमो जलपरि गमनार्थ काष्ठशिलादिरूपः, ध्वजचिह्न राजद्वा- रादौ, यष्टिः पुष्करिण्यादौ, प्रतिमाश्च क्षुद्रा मृन्मय्यादयस्तासां विनाशकः पञ्चशतपणान्दद्यात्तच्च विनाशितं सर्वं पुनर्नवं कुर्यात् ॥ २८५ ॥ अदूषितानां द्रव्याणां दूपणे भेदने तथा । मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ २८६ ॥ अदूषितानामिति ॥ अदुष्टद्रव्याणामपद्रव्यप्रक्षेपेण दूषणे, मणीनां च माणि- क्यादीनामभेद्यानां विदारणे, वेध्यानामपि मुक्तादीनामनवस्थानवेधने प्रथम- साहसो दण्डः कार्यः । सर्वत्र परकीयद्व्यनाशे द्रव्यान्तरदानादिना स्वामितुष्टिः कार्या ॥ २८६॥ समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा । समानुयाद्दमं पूर्व नरो मध्यममेव वा ॥ २८७ ॥ समैरिति ॥ समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टद्रव्यदानेन यो विषमं व्यव- हरति सममूल्यं द्रव्यं दत्त्वा यः कस्यचिद्वहुमूल्यं कस्यचिदल्पमूल्यमिति विषमं मूल्यं गृह्णाति सोऽनुबन्धविशेपापेक्षया प्रथमसाहसं मध्यमसाहसं वा दण्डं प्रामुयात् ॥ २८७ ॥ बन्धनानि च सर्वाणि राजा-मार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः॥ २८८ ॥ प्राकारस्य च भेत्तारं परिखाणां च पूरकम् । द्वाराणां चैव भतारं क्षिप्रमेव प्रवासयेत् ॥ २८९ ।। बन्धनेति ॥ प्राकारेति ॥ बन्धनगृहाणि सर्वजनदृश्ये राजमार्गे कुर्यात् यन्त्र निगडबन्धाद्युपेताः क्षुत्तृष्णाभिभूता दीर्घकेशनखश्मश्रवः कृशाः पापकारिणो- ऽन्यैरकार्यकारिभिरकार्यनिवृत्त्यर्थे दृश्येरन् राजगृहपुरादिसंबन्धिनः प्राकारस्य भेदकं तदीयानामेव परिखाणां पूरयितारं तदतानां द्वाराणां भञ्जकं शीघ्रमेव देशान्निर्वासयेत् ॥ २८८ ॥ २८९ ॥ अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः। मूलकमणि चानाप्तेः कृत्यासु विविधासु च ॥ २९० ॥