अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता।
चिकित्सकानामिति ॥ सर्वेषां कायशल्यादिभिपजां दुश्चिकित्सां कुर्वतां दण्डः
कर्तव्यः । तत्र गवाश्वादिविषये दुश्चिकित्सायां प्रथमसाहसदण्डो मानुपविषये
पुनर्मध्यमसाहसः ॥ २८४ ॥
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः।
प्रतिकुर्याच्च तत्सर्वं पञ्च दद्याच्छतानि च ।। २८५ ॥
संक्रमेति ॥ संक्रमो जलपरि गमनार्थ काष्ठशिलादिरूपः, ध्वजचिह्न राजद्वा-
रादौ, यष्टिः पुष्करिण्यादौ, प्रतिमाश्च क्षुद्रा मृन्मय्यादयस्तासां विनाशकः
पञ्चशतपणान्दद्यात्तच्च विनाशितं सर्वं पुनर्नवं कुर्यात् ॥ २८५ ॥
अदूषितानां द्रव्याणां दूपणे भेदने तथा ।
मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ २८६ ॥
अदूषितानामिति ॥ अदुष्टद्रव्याणामपद्रव्यप्रक्षेपेण दूषणे, मणीनां च माणि-
क्यादीनामभेद्यानां विदारणे, वेध्यानामपि मुक्तादीनामनवस्थानवेधने प्रथम-
साहसो दण्डः कार्यः । सर्वत्र परकीयद्व्यनाशे द्रव्यान्तरदानादिना स्वामितुष्टिः
कार्या ॥ २८६॥
समैर्हि विषमं यस्तु चरेद्वै मूल्यतोऽपि वा ।
समानुयाद्दमं पूर्व नरो मध्यममेव वा ॥ २८७ ॥
समैरिति ॥ समैः सममूल्यदातृभिः सहोत्कृष्टापकृष्टद्रव्यदानेन यो विषमं व्यव-
हरति सममूल्यं द्रव्यं दत्त्वा यः कस्यचिद्वहुमूल्यं कस्यचिदल्पमूल्यमिति विषमं
मूल्यं गृह्णाति सोऽनुबन्धविशेपापेक्षया प्रथमसाहसं मध्यमसाहसं वा दण्डं
प्रामुयात् ॥ २८७ ॥
बन्धनानि च सर्वाणि राजा-मार्गे निवेशयेत् ।
दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः॥ २८८ ॥
प्राकारस्य च भेत्तारं परिखाणां च पूरकम् ।
द्वाराणां चैव भतारं क्षिप्रमेव प्रवासयेत् ॥ २८९ ।।
बन्धनेति ॥ प्राकारेति ॥ बन्धनगृहाणि सर्वजनदृश्ये राजमार्गे कुर्यात् यन्त्र
निगडबन्धाद्युपेताः क्षुत्तृष्णाभिभूता दीर्घकेशनखश्मश्रवः कृशाः पापकारिणो-
ऽन्यैरकार्यकारिभिरकार्यनिवृत्त्यर्थे दृश्येरन् राजगृहपुरादिसंबन्धिनः प्राकारस्य
भेदकं तदीयानामेव परिखाणां पूरयितारं तदतानां द्वाराणां भञ्जकं शीघ्रमेव
देशान्निर्वासयेत् ॥ २८८ ॥ २८९ ॥
अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः।
मूलकमणि चानाप्तेः कृत्यासु विविधासु च ॥ २९० ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
