पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः । [ अध्यायः ३

कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥८६॥

कुह्वै चेति ॥ कुह्वा अनुमत्यै प्रजापतये द्यावापृथिवीभ्यामग्नये स्विष्टकृत इत्येवं स्वाहाकारान्तान्होमान्कुर्यात् । श्रुत्यन्तरेप्वग्निविशेषणत्वेन स्विष्टकृतो विधाना- त्केवलं स्विष्टकृन्निर्देशेऽप्यग्निविशेषणत्वेनैव प्रयोगः । पाठादेवान्तत्वे सिद्धे स्विष्टकृतेऽन्तत इत्यभिधानं स्मृत्यन्तरीयहोमसमुच्चयेऽप्यन्तत्वज्ञापनार्थम्॥८६॥

एवं सम्यग्धविर्तुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ८७ ॥

एवमिति ॥ एवमुक्तप्रकारेण सम्यगनन्यचित्तो देवताध्यानपर एव होमान्कृत्वा सर्वासु प्राच्यादिषु विच प्रदक्षिणमिन्द्रादिभ्यः सपुरुषेभ्यो बलिं हरेत् । तथा प्राच्यामिन्द्राय नमः इन्द्रपुरुषेभ्यो नमः । दक्षिणस्यां यमाय नमः यमपुरुषेभ्यो नमः । पश्चिमायां वरुणाय नमः वरुणपुरुषेभ्यो नमः । उत्तरस्यां सोमाय नमः सोमपुरुषेभ्यो नमः। यद्यपि शब्दावगम्यत्वाद्देवतात्वस्यान्तकाप्पतीन्दुशब्दरेवोहेशो युक्तस्तथापि बचानुष्टानसंवादाहढचगृह्ये च यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुपेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशम्' इति पाठाद्यथोक्त एव प्रयोगः ॥ ८७॥

मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वभ्द्य इत्यपि ।
वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ८८ ॥

मरुद्भ्य इति ॥ इतिशब्दः स्वरूपविवक्षार्थः। मरुद्भ्यो नमः इति द्वारे बलिं दद्यात्। जलेऽन्य इति । मुसलोलूखल इति द्वन्द्वनिर्देशात्सहयुक्तयोरन्यतरन्न वनस्पतिभ्य इति बलिं दद्यात् । गुणानुरोधेन प्रधानबलिकर्मावृत्तेरन्याय्यत्वात्॥८८॥

उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः।
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ८९ ॥

उच्छीर्षके इति ॥ वास्तुपुरुषस्य शिरःप्रदेश उत्तरपूर्वस्यां दिशि श्रियै बलिं दद्यात् । तस्यैव पाददेशे दक्षिणपश्चिमायां दिशि भद्रकाल्यै । अन्ये तु उच्छीपक गृहस्थशयनस्य शिरःस्थानभूभागं पादत इति तस्यैव चरणभूप्रदेशमाहुः । ब्रह्मणे वास्तोष्पतय इति गृहमध्ये । द्वन्द्व निर्देशेऽपि ब्रह्मवास्तोष्पत्योः पृथगेव देवतात्वम्। यत्र द्वन्द्वे मिलितस्य देवतात्वमपेक्षितं तत्र सहादिशब्दं करोति । यथा सहयावापृथिव्योश्चेति ॥ ८९॥

विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥९०॥