पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ९३

ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ ८० ॥

ऋषय इति ॥ एते गृहस्थेभ्यः सकाशात्प्रार्थयन्ते । अतः शास्त्रज्ञेन तेभ्यः कर्तव्यम् ॥ ८०॥ किं तत्तदाह-

स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ।
पिवृन्श्राद्धैश्च नृनन्नैर्भूतानि बलिकर्मणा ॥ ८१ ॥

स्वाध्यायेनेति ॥ नानासकारत्वादर्चनस्य स्वाध्यायादेरर्चनार्थत्वमुचितम् । महा- यज्ञान्तर्गतैः स्वाध्यायादिभिः ऋषिदेवपित्रतिथिभूतानि यथाशास्त्रं पूजयेत् ॥८॥ तत्र पितृयज्ञं तावदाह-

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥ ८२ ॥

कुर्यादिति ॥ प्रत्यहं यथासंभवं श्राद्धं कुर्यात् । श्राद्धशब्दोऽयं कर्मविधिवाक्यवर्ती कौण्डपायिनामयनीयाग्निहोत्रशब्दवद्वक्ष्यमाणपार्वणश्राद्धधर्मातिदेशार्थः । अन्नाद्येनेति तिलै/हिभिर्यवैरित्यादेरुपादानम् । पयः क्षीरम् ॥ ८२ ॥

एकमप्याशयेद्विग्नं पित्रर्थे पाञ्चयज्ञिके ।
न चैवात्राशयेत्कंचिद्वैश्वदेवं प्रति द्विजम् ॥ ८३॥

एकमिति ॥ पितृप्रयोजने पञ्चयज्ञान्तर्गते एकमपि ब्राह्मणं भोजयेत् । अपिशब्दात्संभये बहूनपि । पार्वणधर्मग्रहणाच्च वैश्वदेवब्राह्मणभोजनप्राप्ताबाह-न कंचिद्वैश्वदेवार्थ ब्राह्मणमत्र भोजयेत् ॥ ८३ ॥

वैश्वदेवस्य सिद्धय गृह्येऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्यादेवताभ्यो ब्राह्मणो होममन्वहम् ॥ ८४ ॥

वैश्वदेवस्येति ॥ विश्वदेवार्थः सर्वदेवताओं वैश्वदेवस्तस्य पक्कस्यान्नस्यावसथ्याग्नौ स्वगृह्यविहितपर्युक्षणादीतिकर्तव्यतापूर्वकमाभ्यो वक्ष्यमाणदेवताभ्यो ब्राह्मणः प्र- त्यहं होमं कुर्यात् । ब्राह्मणग्रहणं द्विजातिप्रदर्शनार्थम् । त्रयाणां प्रकृतत्वात् ॥८॥

अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ ८५॥

अग्नेरिति वचनद्वयम् 'स्वाहाकारप्रदानहोमः' इति कात्यायनस्सरणादादाव- नये स्वाहा सोमाय स्वाहेति निरपेक्षदेवताकं होमद्वयं कृत्वा अग्नीषोमाभ्यांस्वाहे ति समस्तदेवताकं होमं कुर्यात् । ततो विश्वेभ्यो देवेभ्यो धन्वन्तरये ॥ ८५॥