अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ९५
विश्वेभ्य इति ॥ विश्वेभ्यश्चैव देवेभ्य इति शब्दादेकेयमाहुतिः। विश्वेभ्यो देवेभ्यो नम इति गृहाकाशे बलिं दद्यात् । दिवाचरेभ्यो भूतेभ्य इति दिवा, नक्तंचारिभ्य इति नक्तम् । बढ्चगृह्यदर्शनादियं व्यवस्था ॥ ९०॥
पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । |
पृष्ठेति ॥ गृहस्योपरि यद्गृहं तत्पृष्ठवास्तु बलिं दातुः पृष्ठदेशे भूभागे वा तत्र सर्वात्मभूतये नम इत्येव बलिं दद्यात् । उक्तबलिदानावशिष्टं सर्वमन्नं दक्षिणस्यां दिशि दक्षिणामुखः स्वधापितृभ्य इति बलिं हरेत् । प्राचीनावीतिना चायं बलिर्देयः । 'स्वधापितृभ्य इति प्राचीनावीती शेषं दक्षिणानिनयेत्' इति बह्वृचग्रह्यवचनात् ॥ ९१ ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम् । |
शुनां चेति ॥ अन्यदन्नं पाने समुद्धृत्य श्वपतितादिभ्यः शनकैर्यथा रजसा न संगृह्यते तथा भुवि दद्यात् । पापरोगी कुष्टी क्षयरोगी वा ॥ ९२ ॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । |
एवमिति ॥ एवमुक्तप्रकारेण यः सर्वभूतान्यन्नदानादिना नित्यं पूजयति स परं स्थानं ब्रह्मात्मकं तेजोमूर्ति प्रकाशं अवक्रेण वर्मनाचिरादिमार्गेण प्राप्नोति । ब्रह्मणि लीयत इत्यर्थः । ज्ञानकर्मभ्यां मोक्षप्राप्तेः । तेजोमूर्तिरिति सविसर्गपाठे प्रकृष्टब्रह्मबोधस्वभावो भूत्वेति व्याख्या ॥ ९३ ॥
कृत्वैतद्धलिकर्मैवमतिथिं पूर्वमाशयेत् । |
कृत्वेति ॥ एवमुक्तप्रकारेणैद्धतलिकर्म कृत्वा गृहभोक्तभ्यः पूर्वमतिथिं भोजयेत् । भिक्षवे परिव्राजे ब्रह्मचारिणे प्रथमाश्रमिणे च विधिवत्स्वस्तिवाच्य भिक्षादानमप्यूर्ध्वमिति गौतमायुक्तविधिना भिक्षां दद्यात् । ग्रासप्रमाणा च भिक्षा भवति । 'ग्रासमात्रा भवेद्भिक्षा' इति शातातपवचनात् । संभवे त्वधिकमपि देयम् ॥ ९४ ॥
यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः। |
यदिति ॥ गुरवे गां दत्त्वा विधिवत्स्वर्णशृङ्गिकादिविधानेन यत्फलं प्रामोति तद्गृहस्थो विधिना भिक्षादानात्प्राप्नोति ॥ ९५ ॥