पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ मनुस्मृतिः। [अध्यायः २

र्षस्य सूचकः । स द्विज आ नखाग्रेभ्य एव चरणनखपर्यन्तं सर्वदेहव्यापकमेव प्रकृष्टतमं तपस्तप्यते । यः स्वग्न्यपि कुसुममालाधार्यपि प्रत्यहं यथाशक्ति स्वाध्यायमधीते । स्रग्च्यपीत्यनेन वेदाध्ययनाय ब्रह्मचारिनियमत्यागमपि स्तुत्यर्थं दर्शयति । तप्यत इति 'तपस्तपःकर्मकस्यैव' इति यगात्मनेपदे भवतः ॥ १६७ ॥

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १६८।।

योऽनधीत्येति ॥ यो द्विजो वेदमनधीत्यान्यनार्थशास्त्रादौ श्रमं यत्नातिशयं करोति स जीवन्नेव पुत्रपौत्रादिसहितः शीघ्रं शूदत्वं गच्छति । वेदमनधीत्यापि स्मृतिवेदाङ्गाध्ययने विरोधाभावः । अतएव शङ्खलिखितौ-'न वेदमनधीत्यान्यां विद्यामधीयीतान्यत्र वेदाङ्गस्मृतिभ्यः' ॥ १६८ ॥ द्विजानां तत्र तत्राधिकारश्रुतेविजत्वनिरूपणार्थमाह-

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ १६९ ॥

मातुरग्र इति ॥ मातुः सकाशादादौ पुरुषस्य जन्म । द्वितीयं मौञ्जिबन्धने उपनयने । ‘ङ्यापोः संज्ञाछन्दसोर्बहुलम्' इति ह्रस्वः। तृतीयं ज्योतिष्टोमादियज्ञदीक्षायां वेदश्रवणात् । तथाच श्रुतिः-'पुनर्वा यदृत्विजो यज्ञियं कुर्वन्ति यहीक्षयन्ति' इति । प्रथमद्वितीयतृतीयजन्मकथनं चेदं द्वितीयजन्मस्तुत्यर्थ, द्विजस्यैव यज्ञदीक्षायामप्यधिकारात् ॥ १६९ ॥

तत्र यद्ब्रह्मजन्मास्य मौञ्जीवन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ १७० ॥

तत्रेति ॥ तेषु त्रिषु जन्मसु मध्ये यदेतद्ब्रह्मग्रहणार्थं जन्मोपनयनसंस्काररूपं मंखलाबन्धनोपलक्षितं तत्रास्य माणवकस्य सावित्री माता, आचार्यश्च पिता । मातृपितृसंपाद्यत्वाजन्मनः ॥ १७ ॥

वेदप्रदानादाचार्य पितरं परिचक्षते ।
न ह्यसिन्युज्यते कर्म किंचिदामौञ्जिबन्धनात् ॥ १७१ ॥

वेदप्रदानादिति ॥ वेदाध्यापनादाचार्य पितरं मन्वादयो वदन्ति । पितृवन्महोपकारफलाद्गौणं पितृत्वम् ॥ महोपकारमेव दर्शयति-न ह्यस्मिन्निति । यस्मादस्मिन्माणवके प्रागुपनयनात्किंचित्कर्म श्रौतं स्मात च न संबध्यते । न तत्राधिक्रियत इत्यर्थः ॥ १७ ॥

नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ १७२ ॥

नाभिव्याहारयेदिति ॥ आमौञ्जिबन्धनादित्यनुवर्तते । प्रागुपनयनाद्वेवं नोच्चार-