पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ६३.

येत् । स्वधाशब्देन श्राद्धमुच्यते । निनीयते निष्पाद्यते येन मन्त्रजातेन तद्वर्जयित्वा मृतपितृको नवश्राद्धादौ मन्त्रं नोच्चारयेत् । तद्व्यतिरिक्तं वेदं नोदाहरेत् । यस्माद्याववेदे न जायते तावदसौ शूद्रेण तुल्यः ॥ १७२ ॥

कृतोपनयनस्यास्य व्रतादेशनमिष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥

कृतोपनयनस्येति ॥ यस्मादस्य माणवकस्य 'समिधमाधेहि' 'दिवा मा स्वाप्सीः' इत्यादिव्रतादेशनं वेदस्याध्ययनं मन्नब्राह्मणक्रमेण 'अध्येप्यमाणस्त्वाचान्तः' इत्यादिविधिपूर्वकमुपनीतस्योपदिश्यते । तस्मादुपनयनात्पूर्वं न वेदमुदाहरेत् ॥१७३॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ १७४ ॥

यद्यस्येति ॥ यस्य ब्रह्मचारिणो यानि चर्मसूत्रमेखलादण्डवस्त्राण्युपनयनकाले गृह्येण विहितानि, गोदानादिव्रतेष्वपि तान्येव नवानि कर्तव्यानि ॥ १७४ ॥

सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः॥ १७५ ॥

सेवेतेति ॥ ब्रह्मचारी गुरुसमीपे वसन्निन्द्रियसंयमं कृत्वानुगतादृष्टवृद्ध्यर्थमिमा- नियमाननुतिष्ठेत् ॥ १७५ ॥

नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥ १७६ ॥

नित्यमिति ॥ प्रत्यहं स्नात्वा देवर्षिपितृभ्य उदकदानं, प्रतिमादिषु हरिहरादिदेवपूजनं, सायंप्रातश्च समिद्धोमं कुर्यात् । यस्तु गौतमीये स्नाननिषेधो ब्रह्मचारिणः स सुखस्नानविषयः । अतएव बौधायन:-'नाप्सु श्लाघमानः स्नायात्' । विष्णुनात्र 'कालद्वयमभिषेकाग्निकार्यकरणमप्सु दण्डवन्मजनम्' इति ब्रुवाणेन वारद्वयं स्नानमुपदिष्टम् ॥ १७६ ॥

वर्जयेन्मधु मांसं च गन्धं माल्यं रसास्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ १७७॥

वर्जयेदिति ॥ क्षौद्रं मांसंच न खादेत् । गन्धं च कपूरचन्दनकस्तूरिकादि वर्जयेत् । एषां च गन्धानां यथासंभवं भक्षणमनुलेपनं च निषिद्धम् । माल्यं च न धारयेत् । उद्विक्तरसांश्च गुडादीन्न खादेत् । स्त्रियश्च नोपेयात् । यानि स्वभावतो मधुरादिरसानि कालवशेनोदकवासादिना चाम्लयन्ति तानि शुक्तानि न खादेत् । प्राणिनां हिंसां न कुर्यात् ॥ १६७ ॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ १७८ ॥