अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ६१
संमानादिति ॥ ब्राह्मणः संमानाद्विषादिव सर्वदोद्विजेत संमाने प्रीतिं न कुर्यात् । अमृतस्येव सर्वसाल्लोकादवमानस्साकाङ्केत् । अवमाने परेश कृतेऽपि क्षमावांस्तत्र खेदं न कुर्यात् । मानावमानद्वन्द्वसहिष्णुत्वमनेन विधीयते ॥ १६२ ॥
अवमानसहिष्णुत्वे हेतुमाह-
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । |
सुखं ह्यवमतः शेत इति ॥ यस्मादवमाने परेण कृते तत्र खेदमकुर्वाणः सुखं निद्राति । अन्यथावमानदुःखेन दह्यमानः कथं निद्रा लभते । कथं च सुखं प्रतिबुध्यते । प्रतिबुद्धश्च कथं सुखं कार्येषु चरति । अवमानकर्ता तेन पापेन विनश्यति ॥ १६३॥
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः। |
अनेनेति ॥ अनेन क्रमकथितोपायेन जातकर्मादिनोपनयनपर्यन्तेन संस्कृतो द्विजो गुरुकुले वसन् शनैरत्वरया वेदग्रहणार्थ तपोऽभिहिताभिधायमाननियमकलापरूपमनुतिष्ठेत् । विध्यन्तरसिद्धस्याप्ययमर्थवादोऽध्ययनाङ्गत्वबोधनाय॥१६४ अध्ययनाङ्गत्वमेव स्पष्टयति-
तपोविशेषविविधैर्वितैश्च विधिचोदितैः। |
तपोविशेषैरिति ॥ तपोविशेषैनियमकलापैर्विविधैर्बहुप्रकारैश्च 'अध्येप्यमाणस्त्वाचान्तः' इत्यादिनोक्तैः, 'सेवेतेमांस्तु नियमान्' इत्यादिभिर्वक्ष्यमाणैरपि, व्रतैश्वोपनिषन्महानाम्निकादिभिर्विधिदेशितैः स्वगृह्यविहितैः समग्रवेदो मन्त्रब्राह्मणास्मकः सोपनिषत्कोऽप्यध्येतव्यः । रहस्यमुपनिषदः । प्राधान्यख्यापनाय पृथनिर्देशः ॥ १६५ ॥
वेदमेव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः। |
वेदमेवेति ॥ यत्र नियमानामङ्गत्वमुक्तं तत्कृत्स्नस्वाध्यायाध्ययनमनेन विधत्ते । तपस्तप्स्यंश्चरिष्यन्द्विजो वेदमेव ग्रहणार्थमावर्तयेत् । तस्माद्वेदाभ्यास एव विप्रादेरिह लोके प्रकृष्टं तपो मुनिभिरभिधीयते ॥ १६६ ॥
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः। |
आहैवेति ॥ स्वाध्यायाध्ययनस्तुतिरियम् । हशब्दः प्रक- मनु० ६