९ पञ्चलक्षणनिदानम् १। नार्थकर इति भङ्गया भाषणेन निदानान्तरोपहितबल एव व्याधियाध्यन्तरमार- भत इति धन्यते । तथा च रोगो रोगस्य निदानमुपजायत इत्येव ग्रन्थकार- हृदयंबोध्यम् । रोगाद् गेगान्तरोत्पत्तौ दृष्टान्तमाह-तद्यथेति । ज्वरस्य सन्तापो- ज्वरसन्तापस्तस्मात् कारणभूतात्, रक्तपित्तं लोहितपित्तसंज्ञको रोगः, उदीर्य- ते-उत्पद्यते । निदानभूताद् रक्तपित्ताद् ज्वरः, उत्पद्यते, ताभ्यां रक्तपित्तज्व- राभ्यां, निदानभृताभ्यां शोथ उपजायते, प्लीहाभिवृद्ध्या जठरम्-उदररोगः, जायते । जठरात् शोथः संजायने, अर्शीभ्यः = दुर्नामसंज्ञकेभ्यः, दुःखयताति दुःख = पाडाजनक, जाठरम् उदररोगः, गुल्मश्चाप्युपजायते। दिवास्वा- पादिदोषैः प्रतिश्यायः-पीनसः, आयते । प्रतिश्यायात् = पीनसात्, कासः सञ्जायते कासात्क्षय उत्पद्यने स च क्षयः शोषस्य रोगस्य = राजयक्ष्मणा- हेतुत्वे उपजायत इति। "ननु कालबुद्धीन्द्रियार्थानां योगो मिथ्यान चाति च। द्वयाश्रयाणां व्याधीनां त्रिविधा हेतुसङ्ग्रह" इति चरकवचन विरु- रणद्धि । यदि रोगोऽपि रोगस्य निदानमुपजायते तदा तुरीयहेतुसद्भावादिति चे- दत्र के चित् समाधिमभिदधति-रोगा रोगस्य निदानं भूत्वा त्रिविधनिदानव्यनि- रेकेण निदानं न भवति यावदसात्म्येन्द्रियार्थसंयोगादिभिरूपबृंहितबलो न भवति न तावद् रक्तपित्तमारभते ज्वरः, तस्माद् रोगोत्पत्तौ त्रिविध एव हेतुः साक्षात परम्परयेति बोध्यम् ॥ १८ ॥ ते पूर्व केवला रोगाः पश्चादूधेत्वर्थकारिणः । कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ॥ १९ ॥ न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च । एवं कृच्छ्रतमा नृणां दृश्यन्ते व्याधिसंकराः ॥२०॥ ननु य एने रोगा आमयान्तरस्य निदानत्वेनोपवर्णितास्ते उत्पन्नमात्रा एवं व्याधि जनयन्ति, उतानन्तरगित्यभिधातुमाह-ते पूर्वमित्यादि । ते रोगाः श्रा- मयाः, पूर्वम्-उपवृहककारणलाभात् प्राक् , जात्वात् । पश्चाद् उपबृहककारणलाभाद् , हेत्वर्थकारिणः हेतोर्निदानस्य योऽ- र्थो यत्प्रयोजन, व्याध्यारम्भकत्वं तत् सम्पादयन्तीति । रोगोत्पादकस्य व्याधे- चित्यमाह-कश्चिदित्यादि । कश्चिद् रोगो रोगस्य = व्याध्यन्तरस्य, हेतु - त्वा प्रशाम्यति= निवर्त्तते । अन्यश्च रोगस्य हेतुर्भूत्वा, न प्रशाम्यति ब्या- ध्यन्तरस्य हेतुत्वं कुरुते, यथा-प्रतिश्यायो न निवर्त्तते कास उत्पद्यते । अर्शी न प्रशाम्यति जठरगुल्मौ संजनयत इति ।। १९-२० ।। केवला: स्वतन्त्राः, रोगाएत्र -
पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८
दिखावट