१० सुधोपेते माधवनिदाने- तस्माद् यत्नेन स दूवैद्यैरिच्छनिः सिद्धिमुद्धताम् । ज्ञातव्यो वक्ष्य. ऽयं ज्वरादीनां विनिश्चयः ॥२१॥ इतिश्रीमाधवकरविरचिते माधवनिदानेप्रथमं पञ्चलक्षणनिदानं समाप्तम्॥१॥ अवश्यवेदनीयतामुपवर्णयति-तस्मादित्यादिना । तस्मात् कारणात् , द्भुताम्-उत्कृष्टां, बहुविषयोपगुण्ठिताम् , सिद्धि - कौशलम्, इच्छद्भिः सवै- धेः, योऽयं ज्वरादीनां विनिश्चयो निदानादि प्रतिरोगमग्रे वक्ष्यते स यत्नेन ज्ञातव्यः अवश्यं बोद्धव्य इति ॥ २१ ॥ इति माधवनिदाने सुधाऽभिधायां टिप्पण्यां पञ्चलक्षनिदानं समाप्तम् ॥१॥ अथ द्वितीयं ज्वरनिदानम् ॥ २॥ ज्वरमूलहेतुस्तमख्या-दक्षापमान-संक्रुद्ध-रुद्र-निःश्वास-सम्भवः । ज्वरोऽष्टधा पृथग्द्वन्द्वसङ्घातागन्तुजः स्मृतः ॥१॥ मर्वरोगाणां मध्ये ज्वरस्य प्राधान्यात् प्रथमं ज्वरमेव निर्वक्ति । प्राधान्यच्च- देहन्द्रियमनस्तापित्वाज्जन्ममरणयोरवश्यम्भावित्वात् सर्वरोगाग्रजत्वाच्च । यदुक्तं- चरकं पतञ्जलिना-"देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली। ज्वरः प्रधान. रागागामुक्तो भगवता पुरा” इति । 'तस्य प्राणिसपत्नस्य ध्रुवस्य प्रल- योदये इत्यादि । एप एत्र ज्वरः । स्थावरजङ्गमरूपसर्वभूतव्यापकोऽधिष्ठानभेदेन नानानामधेयान्यभिवति । तथा चोक्तं तन्त्रान्तरे-पाकलः स तु नागानाम- भितापस्तु वाजिनाम् । गवामीश्वरसंज्ञस्तु मानवानां ज्वरो मतः ॥अजा- वीनां प्रलापाख्यः करभे चालसो भवेत् । हारिद्रोमहिषाणां तु मृगरोगो- मृगेषु च ॥ पक्षिणामभिघातस्तु मत्स्येष्विन्द्रमदो मतः । पक्षपातः पत- ङ्गानां व्याडेश्वक्षिकसंज्ञितः। जलस्य नीलिकाभूमेरूषरोवृक्षस्य कोटरः ॥ इत्यादि । पूर्व ज्वरोत्पत्तिमाह-दक्षापमानेत्यादि । दक्षस्यापमानेन संक्रुद्धस्य रुद्रस्य निःश्वासात् सम्भवो यस्य स तथाभूतो ज्वरोऽष्टधा । अष्टधात्वं विवृणोति- पृथगित्यादिना। पृथग्जास्त्रयः-१ वातिकः २ पैत्तिकः ३ इलैष्मिकः । द्वन्द्वजा- स्त्रयः-४ वातपित्तिकः ५ वातश्लेष्मिकः, ६ पैत्तश्लेष्मिकः, ७ संघातज एकः, आगन्तुज एकः । एवमष्टविधो ज्वरो भवति संक्षेपेण ॥१॥ ज्वरसम्प्राप्तिः-मिथ्याऽऽहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः। बहिनिरस्य कोष्टाग्निं वरदाः स्यू रसानुगाः ॥२॥
पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९
दिखावट