पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ज्वरनिदानम् २ । ११ ज्वरस्य मम्प्राप्तिमाह-मिथ्येत्यादि । आहारश्च विहारश्च आहारविहारौ ताभ्यामाहारविहाराभ्याम् मिथ्याशब्द उभयत्र सम्बद्धयते । आहारस्य मि- थ्यात्वं = प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्तृणामाहारोपयोगहेतू- भूतानामष्टविधानां विरुद्धत्वेनोपयोगः । उदाहरणानि-अन्यतोऽवसयानि विस्तरभ- यान लिखितानि । विहारस्य मिथ्यात्वम्-अयथाबलमारम्भादि । यथा चोक्ता- न्यन्यत्र मिथ्याऽऽहारविहारयोर्लक्षणानि-"अकाले चातिमात्रञ्च ह्यसात्म्य- यच्च भोजनम् । विषमं चापि यद् भुक्तं मिथ्याऽऽहारः स उच्यते ।। अशक्तः कुरुते कर्म शक्तिमान करोति यः। मिथ्याविहार इत्युक्तः सदा तं परि- बर्जयेत् ॥ इति। दोषाः = वातपित्तश्लेष्माणः, आमाशयाश्रयाः == आमाशया- धिष्ठिताः, आपाशयलक्षणं यथा T-'नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः' इति । रसानुगाः= रमसंबद्धाः, कोष्टाग्निं, बहिनिरस्य पक्तस्था- नान्निष्काश्य ज्वरदाः-ज्वरकारिणः, स्युः = भवन्ति ॥ २ ॥ सामान्यज्वरलक्षा-स्वेदावरोधः संतापः सर्वाङ्गग्रहणं तथा । युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ॥३॥ बरलक्षणमाह--स्वेदावरोधः = धर्मानिर्गमः, अथवा स्विद्यत इति स्वेदो- ऽग्निः, तस्यावरोधोऽग्निमान्दधम् । सन्तापः = देहेन्द्रियमनस्तापः, सर्वाङ्गग्रह- f=मर्वाङ्गपीडा, यत्र-व्याधी, युगप एककालावच्छेदेन, ईदृशं लक्षणं दृश्य- ते, स ज्वरः, व्यपदिश्यते-कथ्यते । इति ॥३॥ सामान्य ज्व-श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः । रपूर्वरूपम्-इच्छाद्वषो मुहुश्चापि शीतवातातपादिषु ॥४॥ जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः । अग्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ॥ सामान्यतः, विशेषपूर्वरूपम् ..........विशेषात्तु, जृम्भाऽत्यर्थ समीरणात् । पित्तान्नयनयोहः कफादनारुचिर्भवेत् ॥६॥ द्वन्द्वजमन्निपात- रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वज विदुः । पूर्वरूपम्-सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे ॥७॥ उत्पत्स्यति-भविष्यति, ज्वरे, एतानि लक्षणानि भवन्ति । तथा हि- श्रमः श्रान्तत्वमित्र, अरतिः अनवस्थितचित्तत्वम् , वैरस्य =मुखस्य स्वादा- भावः, नयनप्लव मास्रनेत्रत्वम् , शीतवातादिविषयेषु इच्छाद्वेषौ अभि-