महाभारतम्-05-उद्योगपर्व-094

विकिस्रोतः तः
← उद्योगपर्व-093 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-094
वेदव्यासः
उद्योगपर्व-095 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

प्रभाते संध्यामुपतिष्ठमानं श्रीकृष्णमभ्येत्य शकुनिदुर्योधनाभ्यां सभागमनाय प्रार्थनम् ।। 1 ।।
श्रीकृष्णस्य विदुरेण सह सभाप्रवेशः ।। 2 ।।
अन्तरिक्षगतेषु नारदादिषु श्रीकृष्णाज्ञया भीष्मेण आसनादिना सत्कृतेषु कृष्णादीनां यथोचितमासनेषूपवेशनम् ।। 3 ।।

वैशंपायन उवाच।

5-94-1x

तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ।।

5-94-1a
5-94-1b

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः।
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ।।

5-94-2a
5-94-2b

कथाभिरनुरूपाभी रक्तस्यामिततेजसः ।
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ।।

5-94-3a
5-94-3b

ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।।
शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन् ।।

5-94-4a
5-94-4b

तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् ।
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः ।।

5-94-5a
5-94-5b

कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः।
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ।।

5-94-6a
5-94-6b

अथ दुर्योधनः कृष्मं शकुनिश्चापि सौबलः।
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ।।

5-94-7a
5-94-7b

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्।
कुरूश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ।।

5-94-8a
5-94-8b

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ।।

5-94-9a
5-94-9b

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः।
ददौ हिरण्यं वासांसि गाश्चाश्चांश्च परन्तपः ।।

5-94-10a
5-94-10b

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्।
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ।।

5-94-11a
5-94-11b

` तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः ।
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ।।

5-94-12a
5-94-12b

शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः ।
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः ।।

5-94-13a
5-94-13b

दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत्।
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ ।।

5-94-14a
5-94-14b

विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता ।
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत ।।

5-94-15a
5-94-15b

वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन्।
तस्य सत्ववतः केतौ भुजगारिरशोभत ।।

5-94-16a
5-94-16b

तस्य कीर्तिमतस्तेन भास्वरेण विराजता ।
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना ।।

5-94-17a
5-94-17b

रश्मिजालैः पताकाभिः सौवर्णेन च केतुना ।
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः ।।

5-94-18a
5-94-18b

पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः ।
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा ।।

5-94-19a
5-94-19b

प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः ।
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः ।।

5-94-20a
5-94-20b

कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः।
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः ।।

5-94-21a
5-94-21b

व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः ।
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः ।।

5-94-22a
5-94-22b

वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु ।
समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः ।।'

5-94-23a
5-94-23b

ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ।।

5-94-24a
5-94-24b

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ।।

5-94-25a
5-94-25b

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः।
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन् ।।

5-94-26a
5-94-26b

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ।।

5-94-27a
5-94-27b

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्।
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ।।

5-94-28a
5-94-28b

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ।।

5-94-29a
5-94-29b

सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः ।
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि ।।

5-94-30a
5-94-30b

तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः ।
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे ।।

5-94-31a
5-94-31b

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ।।

5-94-32a
5-94-32b

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः।
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ।।

5-94-33a
5-94-33b

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः।
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ।।

5-94-34a
5-94-34b

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ।।

5-94-35a
5-94-35b

गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः।
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ।।

5-94-36a
5-94-36b

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ।।

5-94-37a
5-94-37b

वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः ।
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ।।

5-94-38a
5-94-38b

स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः ।
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ।।

5-94-39a
5-94-39b

ततः सभां समासाद्य केशवस्यानुयायिनः।
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ।।

5-94-40a
5-94-40b

ततः सा समितिः सर्वा राज्ञाममिततेजसाम्।
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ।।

5-94-41a
5-94-41b

ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः।
श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम् ।।

5-94-42a
5-94-42b

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ।।

5-94-43a
5-94-43b

नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ।।

5-94-44a
5-94-44b

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः।
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया ।।

5-94-45a
5-94-45b

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।
कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः ।।

5-94-46a
5-94-46b

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ।।

5-94-47a
5-94-47b

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ।।

5-94-48a
5-94-48b

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ।।

5-94-49a
5-94-49b

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ।।

5-94-50a
5-94-50b

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ।।

5-94-51a
5-94-51b

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्।
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ।।

5-94-52a
5-94-52b

तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः।
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः।

5-94-53a
5-94-53b

ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।।
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ।

5-94-54a
5-94-54b

पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।।
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ।

5-94-55a
5-94-55b

नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।।
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ।

5-94-56a
5-94-56b

वैशंपायन उवाच।

5-94-57x

ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् ।
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ।

5-94-57a
5-94-57b

आसनान्यथ मृष्टानि महान्ति विपुलानि च ।।
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ।

5-94-58a
5-94-58b

तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ।।
निषसादासने कृष्णो राजानश्च यथासनम् ।

5-94-59a
5-94-59b

दुःशासनः सात्यकये ददावासनमुत्तमम् ।।
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ।

5-94-60a
5-94-60b

अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ।।
एकासने महात्मानौ निषीदतुरमर्षणौ ।

5-94-61a
5-94-61b

गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।।
निषसादासने राजा सहपुत्रो विशांपते ।

5-94-62a
5-94-62b

विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।।
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्।

5-94-63a
5-94-63b

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ।।
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्।

5-94-64a
5-94-64b

अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ।।
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ।।

5-94-65a
5-94-65b

ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।
न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित् ।।

5-94-66a
5-94-66b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि चतुर्नवतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-94-31 चित्राश्च ते रथाश्च ।। 5-94-33 एकपुष्कराः काहलाः ।।

उद्योगपर्व-093 पुटाग्रे अल्लिखितम्। उद्योगपर्व-095