( 87 )
शकुन्तला--हला, चिन्तयाम्यहम् । अवधीरणाभीरु पुनर्वेपते में हृदयम् । राजा-सहर्षम् अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधारणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ ११ ॥ सख्यौ-आत्मगुणावमानिनि, क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ? शकुन्तला. ( सस्मितम् ) नियोजितेदानीमस्मि । ( इत्युपविष्टा चिन्तयति।) राजा- -स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि। यतः, उन्नमितैभ्रूलतमाननमस्याः पदानि रचयन्त्याः । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १२ ॥ शकुन्तला–हला, चिन्तितं मया गीतवस्तु । न खलु संनिहितानि पुनर्लेखनसाधनानि । प्रियंवदा---एतस्मिञ्छुकोदरसुकुमारे नलिनपित्रे नखैर्निक्षिप्तवर्णं कुरु। शकुन्तला--(यथोक्तं रूपयित्वा) हला, शृणुतमिदानी संगतार्थ न वेति । उभे अवहिते स्वः । शकुन्तला--(वाचयति )